SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा पूजाप्रति मादिसिदि ८ विश्रामे ॥९ ॥ काHOROSHOGHORIGIGRI इति वचनात् त्रसविराधनाया विद्यमानत्वात्पत्याख्यानभङ्गप्रसक्तौ प्रवचनेऽत्यन्तमासमञ्जस्यमापोत, तस्मायत्किचिदेतत् , न चैवमब्रह्मसेवायां त्रसविराधनापातकमपि न भविष्यतीति शङ्कनीयम् ,अब्रह्मसेवाया अप्यधर्मरूपत्वेन जिनैः प्रतिषिद्धत्वाद् ,अधर्मे च क्रियमाणे यद्यप्यनन्यगत्या प्रत्याख्यानभङ्गो न स्यात्तथापि तज्जन्यपातकस्यावश्यं भावात् , परं प्रत्याख्यानिनां सम्यग्दृष्टित्वावश्यंभावात् | पापकरणे सशङ्कितत्वेन तथाविधक्लिष्टपरिणामाभावान्मन्दाध्यवसायाच्चाल्पबन्धः, यदुक्तं-"सम्मदिठी जीवो जइविहु पावं समायरे किंची। अप्पो से होइ बंधो जेण न निळ्धसं कुणइ॥2॥"त्ति, अत्र सम्यग्दृष्टित्वेन सांसारिककृत्येप्वप्यल्पो बन्धो भणितः, कथं तर्हि जिनपूजादिष्वपि कर्मबन्धोऽशुभो वा भृयात् वा भवेदिति प्रसङ्गतो बोध्यम् , एतेनानन्यगत्यारम्भादिः सर्वत्रापि न पापहेतु| भविष्यतीति शङ्कापि निरस्ता, धर्मकृत्यरतानां धर्म मुद्दिश्य यतनया तथा प्रवर्त्तने द्रव्यत आरम्भाद्यभ्युपगमात्, नन्वेवं पशुवध| मन्तरेण यागाद्यसंभवादनन्यगत्यैव पशुवधे सिद्धे जिनपूजातुल्यतैव यागेऽपीतिचेन्मैवं, तत्रानन्यगतेरेवाभावात् , यतोऽनन्यगत्या|ऽप्यारम्भो धर्मकृत्येष्वेव द्रव्यारम्भतयाऽभ्युपगतः, न पुनरधर्मकृत्येष्वपि, अन्यथा मृगादिवधमन्तरेण मृगयाया अप्यसंभवात् मृग वघोऽपि द्रव्यवधतयाऽभ्युपगन्तव्यः प्रसज्येत, तेन धर्मे वस्तुगत्या यो धर्मः स च सिध्यन् यदनादाय न सिध्यति तदनन्यगत्या |सिद्धं बोध्यं, तच्च जैनप्रवचनादन्यत्र न संभवत्येव, यतः शाक्यादिषु यागादिकृत्यानामपि वस्तुगत्या न धर्मत्वं, कुतोऽनन्यगतिरपि?, तथाहि-सर्वेष्वपि धर्मानुष्ठानेषु पारमेश्वरं ध्यानं बीजामं, तच्च तदाकृतिपरिज्ञानमन्तरेणासंभवीतिकृत्वा जैनप्रवचने जिनेन्द्रे विद्य|माने तद्रष्टेणां साक्षात्संपर्क जिनेन्द्रशरीरमेव जिनेन्द्रध्यानहेतुः, कालदेशादिव्यवधाने च तत्प्रतिकृतिरेव, सा च प्रतिमा प्रशस्तपार्थिवद्रव्यमन्तरेणासंभविन्येवेति तत्प्रतिमोपयोगितावन्मात्रपार्थिवग्रहणमनन्यगत्यैव सिद्धं, पूजाअपि प्रशस्तस्रक्चन्दनादिसुगन्ध ॥९ ॥ For Person Piese Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy