SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पूजाप्रति मादिसिद्धि श्रीप्रवचन धर्म-धर्मविषये जिनार्चनादिनिमित्तमित्यर्थः "अणारम्भओ"त्ति अनारम्भ एवानारम्भको-भृतोपमईपरिहारः, किमित्याह-'अनापरीक्षा भोगो' ज्ञानाभावो वर्तते, अनाभोगकार्यत्वादनारम्भस्य, अथवा अनारम्भतः-अनारम्भादनाभोगोऽवसीयते, ज्ञानाभाव एव हि ८विश्रामे शास्त्रानुगतोऽपि जिनार्चनादिगत आरम्भोऽकृत्यतयाऽवभासते, तथा 'लोके' शिष्टजने तन्मध्य इत्यर्थः प्रवचनखिंसा-जिनशासना॥८९॥ श्लाघा पूजाविधानाप्रतिपादनपरं जिनशासनम् , अन्यथा कथमार्हताः शौचादिव्यतिरेकेणापि जिनं पूजयन्तीत्यादिरूपा भवति, सा चाबोधेः-जन्मान्तरे जिनधर्माप्राप्तेः बीजमिव बीजं-हेतुरबोधिवीजमित्येतावनन्तरोक्तौ दोषौ-दूषणे भवतः, चशब्दोऽनाभोगापेक्षया समुच्चयार्थः, अथवा दोषाय भवति-धर्माप्राप्तिलक्षणाय तदबोधिबीजं संपद्यत इतिशब्दः समाप्तौ, ततो द्रव्यतः स्नानेन शुद्धवस्त्रेण | जिनपूजा विधेयेति गाथार्थः।। इतिश्रीपश्चाशकवृत्तौ । ननु भवतु श्रावकाणां जिनपूजाविधानादावारम्भः, परं प्रत्याख्यातसर्वसावHद्यानां साधूनां तु पृथिव्याद्यारम्भे कथं न प्रत्याख्यानभङ्ग इति चेदुच्यते, जिनाज्ञयाऽवश्यकर्त्तव्यतामापन्ने साधूचिते विहारादि कर्मणि यतनया तद्विधानकचित्तानां साधूनां भावतः पृथिव्याद्यारम्भपरिणामाभावाद्रव्यत एव तदारम्भः, स च न प्रत्याख्यान भङ्गाहेतः, अन्यथा प्रतिधर्मानुष्ठानं पुनः पुनः प्रव्रज्योचारणं प्रसज्येत, तसाव्यत आरम्भादिरल्पलेपरजःस्पर्शमात्रकल्पस्यापाकृतिपर्यापथिकापठनमात्रसाध्येतिकृत्वा जिनैरीर्याप्रथिकाप्रतिक्रमण नद्याधुत्तारादावुपदिष्टं, यदागमः-"हत्थसयादागंतुं गंतुंच मुहत्तगं| जहिं चिढ़े। पंथे वा वच्चंते नइसंतरणे पडिक्कमइ।।॥त्ति श्रीआवश्यकनियुक्तौ,नियुक्त्यनङ्गीकारे ईर्यापथिकाया अप्यभावः,नियुतिव्यतिरिक्ते सूत्रे नद्युत्तारानन्तरमीर्याया अनुक्तत्वात् ,किंच-यदि जिनोपदिष्टधर्मानुष्ठानेऽप्यनन्यगत्याऽप्यारम्भसंभवे प्रत्याख्यानभडकल्पनापि क्रियते तहि स्थूलपाणातिपातविरतानां श्रावकाणामप्यब्रह्मसेवने "मेहुणसनारूढो नवलक्खे हणइ सुहुमजीवाणं" ANSHORSHOROHOROUGHOROHOR AGROOOOOGHOSH Jan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy