________________
GIGOINGIYONGH
श्रीप्रवचन-परीक्षा ८ विश्रामे મા
SHONG
श्रावण धर्मस्त्ववश्यं कर्त्तव्य एव स चानन्यगत्या जिनभवनादिविधापनादिलक्षणो द्रव्यस्तव एवं यदागम:- " अकसिणपवत्तगाणं विरया विरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वथए कूवदिट्टंतो || १ | "त्ति (आव० भा० ) स च द्रव्यस्त वः पृथिव्याद्यारम्भमन्तरेणासंभवीत्यनन्यगत्या तदारम्भोऽल्पव्ययकल्पः, ज्ञानादिलाभस्तु महालाभकल्पः, ननु तत्र ज्ञानादिलाभः कथमितिचेच्छृणु, चैत्यनमस्कृतिनिमित्तमागता हि साधवो धर्मदेशनादिकमपि प्रयच्छन्ति, ततो ज्ञानादिलाभः, प्रतिमादर्शनात्तीर्थकरमरणेनार्द्रकुमादेवि जातिस्मरणेन वा दर्शनलाभः, चारित्रलाभस्तु साधूपदेश आतिस्मरणादिना वा प्रतीत एव, अतस्तत्र पृथिव्याद्यारम्भोऽल्पः, सोऽपि सदारम्भतयाऽष्टकादौ श्रीहरिभद्रसूरिभिर्भणितः, यतो गृहस्थो ह्यारम्भपरिग्रहादि ध्यानकलित एव स्यात्, तत्रापीन्द्रयपोषनिमित्तमारम्भोऽसदारम्भो, जिनपूजादिधर्मध्यानसंयुक्तस्तु सदारम्भ इति स्वयमेव पर्यालोचय, आयव्ययतुलनया ज्ञानादिलाभाद्यपेक्षया पृथिव्याद्यारम्भसंभवं पातकमकिञ्चित्करमेव, यस्तु पृथिव्याद्यारम्भपात कभीत्या जिनपूजादिकं परित्यजति स च गद्याण| कव्ययभीत्या मेरुगिरिसन्निभं सुवर्णपुखं परिहरतीतिबोध्यम्, एतेनानन्यगत्याऽप्यारम्भो न युक्त इति शङ्कापि व्युदस्ता, यतो यदि प्रत्याख्यातसर्वसावद्यानामपि साधूनां ज्ञानाद्यर्थमनन्यगत्या पृथिव्याद्यारम्भो न प्रत्याख्यानभङ्गहेतुः, नद्याद्युत्तरणानन्तरं पुनर्महाव्रतारोपणापत्तेः, किंतु निर्जराहेतुरिति जिनाज्ञा, कथं तर्ह्यप्रत्याख्यातपृथिव्याद्यारम्भाणां श्रावकाणां जिनभवनादिनिर्मापणादौ पृथिव्याद्यारम्भसंकल्पो नानल्पार्थहेतुरपि, अत एवान्यत्रारम्भवतो जिनोपदिष्टधर्मकृत्येष्वारम्भादिविकल्पो बोधिबीजनाशहेतुः, यदुक्तं - " अण्णत्थारम्भवओ धम्मेऽणारम्भओ अणाभोगो। लोए पवयणखिंसा अबोहिबी अंति दोसा य || १ || ” (१५६ ) इति श्रीहरिभद्रसूरितपूजापञ्चाशके, एतद्वृत्तिर्यथा अन्यत्र - अधिकृतस्नानादेरपरत्र- विविधदेहगेहादि कर्मस्वारम्भवतो-भूतोपमर्दकारिणः सतो देहिनो
Jain Educationa International
For Personal and Private Use Only
OMGILGONGHONGKONGH
पृथिव्याद्यारंभस्य
अनन्यगति
कृता
Healt
www.jainelibrary.org