________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥८७॥
204ORGIO
TONORO
सङ्घादिप्रत्यनीकत्वानिवारणे बोधिनाशादनन्तरसंसारित्वमपि स्यात्, तथा कृते च प्रायश्चित्तप्रतिपच्या सुलभबोधिता महानिर्जरा चेति तथा प्रवृत्तिर्युक्तिमत्येव, ननु तर्हि जिनोपदेशः कथं नेति चेत्साक्षात्तथोपदेशाभावेऽपि कथंचित्तथोपदेशस्याभीष्टत्वात्, यथा "अवण्णवाई पडिहणित्ता भवति "त्ति दशाश्रुतस्कन्धे सूरिसंपद्वर्णनाधिकारे, एतच्चूर्णिर्यथा - " जो अवण्णं वदति तं पडिहण्णति" त्ति तथा "अविहिकया वरमकयं असूअवयणं वयंति गीअत्था । जम्हा पायच्छितं अकए गुरुअं कए लहुआ || १॥"ति, अत्राविधेरुपदेशाभावेऽप्यकरणापेक्षयाऽल्पप्रायश्चित्तभणनेन अर्थात् उपदेश: संपन्न एव, एवं साध्याद्युपद्रवे कल्पायामपि पञ्चेन्द्रियव्यपरोपणायामनन्यगतिरेव शरणं, न पुनस्तत्रान्यतीर्थिकवत् हन्तव्य इत्याद्युपदेश इतिगाथार्थः ॥७७॥ अथ प्रागुक्तं दृष्टान्तं प्रकृते योजयतिएवं जिदिपडिमा आपमुहंपि धम्मिअं किच्चं । कायव्वं कुसलेहिं भणइ जिणो न उण हिंसंपि ॥ ७८ ॥ एवं विहार करणे नद्युत्तारादिदृष्टान्तेन जिनेन्द्रप्रतिमापूजाप्रमुखं धार्मिकं कृत्यं कुशलः - निपुणैः कर्त्तव्यमिति भणति जिन:अर्हन्, न पुनहिंसामपि एतावन्तोऽसुमन्तो हन्तव्या इत्यादिरूपेण हिंसोपदेशं न ददातीत्यक्षरार्थः । भावार्थस्त्वयं-नद्युतारे दृश्यमानायामपि जलादिजीव विराधनायां विहारकरणे नघुत्तारे च यथा जिनाज्ञा यथा वा वर्षाकालं स्थितानामपि साधूनां ज्ञानाद्यर्थं ग्रामानुग्रामविहारकरणे जिनाज्ञा, यदागमः - " वासावासं पञ्जोसविआणं णो कप्पति निग्गंथाण वा २ गामाणुग्गामं दूइञ्जित्तए, पंचहिं ठाणेहिं कप्पति, तं०-णाणट्टयाए दंसणट्टयाए चरितट्टयाए आयरिअउवज्झाए वा से विसुंभेजा आयरिअउवज्झायाण वा बहिआ वेआवच्चकरणाए "त्ति श्रीस्थानाङ्गे (४१३) तथा ज्ञानाद्यर्थं श्रावकाणामपि सत्यामप्यनन्यगत्या जीवविराधनायां जिनभवनविधापनादि यावज्जिनपूजादिषु जिनाज्ञा, अनन्यगतिस्त्वेवं मुख्यवृत्त्या जिनोपदिष्टं साधुमार्ग प्रतिपत्तुमशक्तेन धर्मं चिकीर्षुणा
Jain Educationa International
For Personal and Private Use Only
WODIGION 0%HONGKONGHO
पृथिव्याद्यारंभस्य अनन्यगतिकृता
॥८७॥
www.jainelibrary.org