________________
श्रीप्रवचन-ICणानन्यगत्याऽऽर्हता जनैः प्रतीयमानं सकारणं कार्यमुपदिशन्तीतिगाथार्थः । ७६|| अथ तथोपदेशे दृष्टान्तमाह
पृथिव्यापरीक्षा
जह एगं चिअ पायं जलंमि इच्चाइवयणरयणाए। नइउत्तारो भणिओ न य जलजीवेवि हिंसिज्जा ॥७७॥ द्यारंभस्य ८ विश्रामे यथेत्युदाहरणोपन्यासे "एगं पायं जले किच्चा एगं पायं थले किच्चे" त्यागमवचनादेकं पादं जले एकं चाकाशे कृत्वेत्यादि
अनन्यगति॥८६॥
कृता |वचनरचनया नद्युत्तारो भणितो, जिनेन्द्रैरिति गम्यं, न पुनर्जलं विलोडयनुत्तरेत , जलादिजन्तूनां बाधासंभवाद् , एवमप्युत्तरण-16 मनन्यगत्यैव, सा चैव-प्रव्रजितेन साधुना नैकत्र स्थेयं, कुलादिप्रतिबन्धेन बहुदोषसंभवात, किंत्ववश्यं ग्रामादिषु विहर्तव्यमेव, तच्चान्तरागतनद्युत्तारे सत्येव स्यात् , ततो नद्युत्तारोऽवश्यं कर्त्तव्यः, तत्र जन्तूनां बाधाहेतुरयतना परिहर्त्तव्यैव, यतनालक्षणाया | अन्यगतेर्विद्यमानत्वाद् , यदि निम्नोदका नदी स्यात्तदापि शनैः शनैर्यतनयोत्तरेत , न पुनरयतनयाऽपीतिरूपेण नद्युत्तारो भणितो
दृष्टान्ततयाऽवगन्तव्यः, न च जलजीवानपि हिंस्यादित्येवंरूपेण साक्षादन्यगतौ विद्यमानायामुपदिशन्ति, अन्यतीर्थिकास्तु 'न हिंस्याहात्सर्वभूतानी'ति भणित्वाऽपि 'षट् शतानि नियुज्यन्ते'इत्यादिसंख्याभणनपुरस्सरं जीवहिंसां प्रतिपादयन्ति, तार्किका अपि हिंसात्वेन
पक्षीकृत्याधर्माभावं साधयन्ति, तथाहि-यागीया पशुहिंसानाधर्मसाधनं विहितत्वात्संध्यावन्दनादिवदिति, न चैवं जैनप्रवचने विरुद्धवादित्वमास्तामन्यत्र, प्रायः चैत्यसाध्वादिप्रत्यनीकेष्वपि हिंसाभाषाया अनुपदिष्टत्वाद् , यदागमः-"साहूण चेइआण य पडिणी तह अवण्णवायं च। जिणपवयणस्स अहि सव्वत्थामेण वारेशात्ति (२४२ उप.) अत्र सर्वबलं-स्वप्राणव्यपरोपणं यावदिति व्याख्यातं, यद्यपि पुलाकश्चक्रवर्त्तिसैन्यमपि चूरयेदित्यायुक्तं तत्र क्वचित्सङ्घादिकृत्ये सामर्थ्य दर्शितम् , अनन्यगत्या च कुर्यादपि,
॥८६॥ परं गत्यन्तरे विद्यमाने तथोपदेशो न भवति, कृते च प्रायश्चित्तप्रतिपत्तिरपि, ननु यत्र प्रायश्चित्तप्रतिपतिस्तत्कथं क्रियते चेदुच्यते,
HORaWOROHOROHOTOजा
OMGHONOHOROGHONOKASHOUGH
In Education Intematon
For Personal and Private Use Only
www.jainelibrary.org