________________
श्रीप्रवचन
परीक्षा ८ विश्रामे | ॥८५॥
पृथिव्याद्यारंभस्य अनन्यगति कुता
HOAGRONGHDIOHOGHOROHOROROजब
एवं धर्मानुष्ठानमात्रेऽपि बोध्यं, यतो यावत्कायिकव्यापारस्तावदारम्भादिसंभवः, न च तद्भीत्या संयमाद्यनुष्ठानमपि परिहर्तव्यं, तत्राप्यायव्ययतुलना कर्त्तव्या, नहि कोऽपि सुवर्णफलिका खरशानमारोप्य पादोनविधानादिना परीक्षते, मूलस्थापि संक्षयात् , यत्तु धर्मानुष्ठानेऽपि खल्पव्ययानल्पायादिविवेचनं तदने ‘एवं जिर्णिदे'त्यादिगाथायां दिग्मात्रेण करिष्यते इति गाथार्थः ।।७५॥ अथारम्भादिसंभवे मिथ्यादृक्तुल्यतां परिहतुं गाथामाहपडिसेहिअ जीववहं जे अणुजाणंति तंपि पच्चकखं । ते अण्णउत्थिआ खलु सतिथिआनण्णगइ कजं ॥७६॥ | ये जीववधं प्रतिषिध्य तमपि-जीवघातमपि प्रत्यक्षं-साक्षादनुजानन्ति-अनुज्ञां ददति, न पुनरनन्यगत्याऽर्थापत्त्येति, ते खलुनिश्चितमन्यतीर्थिकाः शाक्यादयो बोध्याः, यथा 'न हिंसात्सर्वभूतानीति भूतवधं प्रतिषिध्य 'षट् शतानि नियुज्यन्ते, पशूनां मध्य| मेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभित्रिमि॥१॥'रित्यादि, खतीथिका-जैनयतयस्त्वनन्यगत्या कार्यमुपदिशन्ति, अयं भावःकार्य त्ववश्यं कर्त्तव्यं, प्रकारान्तरेण च गति स्ति, तस्मात् तेनैव विधिना युक्तमिति जैनाः कार्य धर्मानुष्ठानादिकं भणन्ति, यथाऽनन्तेनापि कालेन दुर्लभं मनुजायुरवश्यं रक्षणीयं, तद्विना पुरुषार्थासाधनात् , आयुरप्यनन्यगत्या भोजनादिविधिनैव रक्षितुं शक्यते, | सोऽपि विधिस्तथा युक्तो यथा मृतः सन् सुगतौ याति, यदुक्तं-"जाएण जीवलोए दो चेव नरेण सिखिअव्वाई। कम्मेण जेण जीवइ जेण मुओ सग्गई जाइ"त्ति, स चाहारोऽभक्ष्यभक्षणादित्यागेनैव युक्तोऽन्यथा सुगतिगमनासंभवाद्, भक्ष्येण शाल्यादिनाऽन्यगतेर्विद्यमानत्वाच्च, तत्रापि निरवद्येनैवान्यगतेर्विद्यमानत्वात्सति सामर्थे साधुवृत्त्यैव स्थेयं, तत्र चावद्यगन्धस्याप्यभावाद्, यदागम:-"अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स साहुदेहस्स धारण।।१"त्ति दशवै०, इत्येवंरूपे
AAGHORGHORHOIRO
॥८॥
For Pesonand Private Use Only