________________
कर्मारिहन
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥७६॥
नार्थत्वे
पूजादि
COHORORUSHOTOजानकातकाल
स्तव्याख्यानं नियुक्त्यादिस्तत्प्रत्यनीकता-तदनिष्टाचरणे तत्परता, सा च लुम्पकमाश्रितानां युक्तैवेतिरूपेण खीकार्यतया सम्मता उतानन्तसंसारपरिभ्रमणहेतु साकमुचितेत्येवंरूपेण परिहार्यतया सम्मता ?, आद्येऽस्मद्विलक्षणस्य लुम्पकस्य नियुक्त्यादेरनभ्युपगमो युक्त एव, न तावताऽस्माकं किंचिदनिष्टं, तदीयकुलस्यैव तथा खभावत्वात् , पायसं परित्यज्य विष्ठामिश्रं कचवरादिकं भक्ष| यति गर्ताशूकरे महतामपि खेदानुत्पादात् , द्वितीयेऽस्माकमिव तवापि नियुक्त्यादिकं सिद्धान्ततया सम्मतमेव सिद्धं, तथा चाचाराग
टीकायां चैत्यादिकप्रत्यनीकता महापापहेतुत्वेन वर्णिता, तत्पूजाधुपघातोऽपि दीर्घस्थितिकमिथ्यात्वमोहनीयकर्मबन्धहेतुत्वेनानन्त| संसारित्वापादक इत्युक्तं, तत्परिहारेणैवारिहन्तृत्वसिद्धौ सिद्धा प्रासादप्रतिमापूर्वकमेव जिनपूजेति, किंच-चैत्यादिमहोत्सवनिमित्तं
प्रवचनेऽमायुद्घोषणं प्रतीतं, यदागमः-"दव्वविमोक्खो निअलाइएसु खितमि चारयाईसु । काले चेइअमहिमाइएसु अमघायमाईउ | ॥१॥"(२५८)त्ति श्रीआचाराङ्गे विमुक्त्याध्ययननियुक्ती, एतद्वत्त्येकदेशो यथा-कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वमाघाता| दिघोषणापादितो यावन्तं कालं मुच्यते यस्मिन् वा काले व्याख्यायते सोऽभिधीयते इतिश्री आचा० टीकायां,अत्रैवं विचारणीयं-यदि
चैत्यादिमहिमा पातकं स्यात्तर्हि तदर्थममारिघोषणं व्यर्थ स्यात् , नहि कोऽप्युद्वाहादिमहोत्सवेष्वमारिघोषणं कारयन् श्रुतः श्रूयते वा, किंच-जैनपुण्यमहोत्सवमन्तरेणामारिघोषणाद्यसंभवाद् , आस्तामन्यद्, अन्यतीथिकानां यागाद्युत्सवेषु बहुद्रव्यव्ययसंभवेऽप्यमारिघोषणवार्ता तु जैनप्रासादप्रतिमाप्रतिष्ठाद्युत्सवदिनेषु तथा पर्युषणापर्बादिपर्वखेवोपलभ्यते, तस्साच्चैत्यादिमहोत्सवा धर्मचक्रवर्निगृहे जायमाना जगजीवानन्दहेतवोऽपि मोहतस्करावष्टम्भगिरिदरीकल्पे लुम्पकगृहे मोहानुचराणां लुम्पकानां शोकहेतवो दृश्यन्ते, तस्माद्यत्रामारिघोषणं तजैनमहोत्सवादि बोध्यं, किंच-चैत्यसङ्घादिप्रत्यनीकता महापापमिति परिवानाभावेन त्यागस्यैवासंभवाद्,
GOINGHOUGHOUSHOGHOSHara
॥७
॥
For Personad Pi
y