SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥७०॥ F%3«0%F«O?T«O?T«®?5«O%F&O%G} एव, यतः सामायिकक्रिया तावत्सचित्तवस्तुस्पर्शादेरप्यविषयः, जिनपूजा च सचित्तजलकुसुमादिभिरेव साध्या, एवं च गमनागमनयोर्युगपदभाव इव युगपद् जिनपूजासामायिक क्रिययोरभाव एव, नहि कोऽपि निपुणोऽपि युगपगमनागमने कुर्वन् दृष्टः श्रुतो वा, न चोपदेशविषयक्रियापेक्षया आदेशविषयक्रिया शोभनतरा भविष्यतीति शङ्कनीयं द्रव्यस्तवाधिकारे तथात्वाभावात्, तद्गतेश्व प्राग्दर्शितत्वात् न ह्यादेशविषयाः क्रियाः सर्वा अपि समानाः, आचार्येण साधूनामिव कृतसामायिकादीनां श्रावकाणामप्यन्नादिकं देयत्वेन प्रसज्येत, तस्मात्प्राधान्याप्राधान्यविचारे आदेशोपदेशादिकल्पनमकिञ्चित्करं, यद्वा प्राधान्यमप्राधान्यं च नैसर्गिक मौपाधिकं चेति प्रागुक्तं, तथा च विवक्षया यद्यादेशविषयाः क्रियाः निसर्गेण शोभना भण्यन्ते तर्हि द्रव्यस्तवे जिनमासादादिक मौपाधिकं शोभनतरं, तेनाल्पसुवर्णमहारजतपुआदिदृष्टान्तेन निमर्गसिद्धशोभनत्वमौपाधिकशोभनापेक्षया यकिञ्चित्करमेवेत्यादि युक्त योऽपरिमिता ग्रन्थविस्तरभयादलिखिता अपि दिग्दर्शनेन स्वयमेवाभ्युद्याः, इत्याद्यनेकागमसम्मत्या श्रावकधर्मे जिनपूजादिविधानस्यैव नैसर्गिकप्रधानभावेन सिद्धे लुम्पकः शङ्कते - ननु भोः यथा अर्हन्ति पूजासत्कारादिकमित्यर्हन्त इति नामव्युत्परयाऽपि जिनपूजा सिद्ध्यति तथाऽर्थापच्या तत्प्रतिषेधोऽपि सिद्ध्यति, तथाहि - जिनपूजादिषु पृथिव्याद्यारम्भस्तावत्तदुपदेशकानां भवतामपि सम्मतः, यत्रारम्भस्तत्र दया न स्याद्, यदुक्तं - "आरंभे नत्थि दया महिलासंगेण नासए बंभं । संकाए सम्मतं पव्वज्जा अत्थगणं || १॥"ति, यत्र चारम्भस्तत्र प्राणा हन्यन्त एव, प्राणहननं त्वर्हद्भिः प्रतिषिद्धं, “सव्वे पाणा न इंतव्वे" त्यागमवचनेनैवेत्यर्थापत्या जिनपूजा प्रतिषिद्वैवेति चेन्मैवं, प्रवचनवार्त्ताया अप्यपरिज्ञानात्, तत्कथमितिचेच्छृणु, यत्रानुष्ठाने आरम्भस्तञ्जिनैः प्रतिषिद्धमेव उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव अथवा भवन्नपि निष्फलत्वान्न विवक्ष्यते !, आद्ये साधूनां विहाराहारनीहारनद्याद्युत्तारप्रतिक्र Jain Education International For Personal and Private Use Only GHOTOSHOO प्रासादपूजा ||06||| www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy