________________
श्रीप्रवचन
परीक्षा ८ विश्रामे
॥ ७१ ॥
DIGHONGKONG
HORONG Go
मणप्रति लेखनोपाश्रयममार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे संपन्ने तचैव गलपादुका, द्वितीयेऽध्यक्षबाधः, नद्युत्तारादिषु षण्णामपि जीवानां विरोधनासंभवात्, “जत्थ जलं तत्थ वण" (जीवा० पृ० पत्र ९ म० ११४ ) मित्यागमवचनात्, प्रतिक्रमणप्रति लेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात्, एजनादिक्रियायुक्तस्यारम्भसमारम्भाद्यवश्यंभावात, यदागमः - " जाव णं एस जीवे एअइ वेअइ चलइ फंदइ इत्यादि यावदारम्भे वह सारंभे वट्टद्द" (१२ - १५२ ) इत्यादि, अथारम्भादि भवदपि निष्फलत्वान्न विवक्ष्यते इति तृतीयः पक्षचेदायातोऽसि स्वयमेवास्मदभिमतमार्गे, यतो वयमपीत्थमेव ब्रूमः - तीर्थकरोपदिष्टासु धर्मक्रियासु सन्नप्यारम्भो निष्फलत्वादकिश्चित्कर एव, अत एव श्रीभद्रबाहुखामिभिः श्रावकमार्गे संसारप्रतनुकरणे कूपदृष्टान्तेन जिनपूजादिलक्षणो द्रव्यस्तवोऽभिहितः, यदुक्तं - "अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वत्थए कूवदितो ॥ १ ॥ "त्ति (१९६ आव० भा० ) श्री आ० नि० । किंच आस्तां धर्मकृत्येषु, सांसारिककर्मकृत्येष्वपि तत्किमपि नास्ति यत्र किमपि व्ययादिर्न स्यात् तस्मादायव्ययतुलनया स्वनिर्वाहहेतु रुद्धरितोऽंशो लाभ एवेतिधिया जगत्प्रवृत्तिनिरवद्यैव दृश्यते, एवं धर्मप्रवृत्तिरपि, यदागमः - " तम्हा सव्वाणुष्णा सव्वनिसेहो य पवयणे नत्थि । आयं वयं तुलिजा लाहाकंखिव्व वाणिअओ || १ || "त्ति (उप० ३९२) नहि कोऽपि लोके लोकोत्तरे च मार्गे लुम्पकं विहाय सर्व्वथा व्ययाभावेनैव लाभाकाङ्क्षी दृष्टः श्रुतो वेत्यलमतिपल्लवेन, ननु भवद्भिरेव द्वितीय विश्रामे साधुक्रियानुकारित्वात्सामायिकादिक्रिया सुवर्णोपमया वर्णिता, प्रासादादिनिर्मापणादिकं रजतोपमये. ते, अत्र तु रजतकल्पं सामायिकानुष्ठानं प्रासादादिनिर्मापणं च सुवर्णकल्पमिति वैपरीत्येन प्रतिपादने प्रागुक्तवचनविरोधनिरोधः कथमितिचेदुच्यते, प्रवचने साधुधर्मः श्रावकधर्मश्चेति धर्मो द्विविधः प्रज्ञप्तः, तत्र साधुधर्म
Jain Educationa International
For Personal and Private Use Only
प्रासादपूजा
॥७१॥
www.jainelibrary.org