________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥६५॥
ON::
Jain Educationa Internatio
यिकादि निरवद्यानुष्ठानं शोभनमितिचेन्मैवं, जिनाज्ञाया एव प्राधान्यात् नहि प्रतिलेखनादिक्रियापरायणैरपि जिनकल्पिकैर्महानिर्जरा हेतुत्वेन भणितमप्याचार्यादिवैयावृत्यं गच्छनिश्रादिकं च परिहृतमतः प्रतिलेखनादिक्रियापेक्षया तदशोभनं न वा तत्परिहृत्य प्रतिलेखनादिक्रियास्त्र यतितव्यं धर्मोपदेशादिपरिहारेण, तीर्थस्याप्युच्छेदापत्तेः, तस्माद्यथा जिनकल्पिकानधिकृत्यैव वैयावृत्यादिनिषेधस्तथा कृतसामायिकादिकमधिकृत्यैव पुष्पादिना जिनपूजा निषेधस्तथैव जिनाज्ञायाः, अत एव यथोचितकालादिकमधिकृत्य यथोचित सामायिक पूजादिक्रियाः कुर्वाण एव जिनाज्ञाराधको भवति, न पुनर्यथाशक्ति कालक्रमादिविपर्ययेण कुर्वाणो| कुर्वाणो वा जिनाज्ञाराधकः संभवेद्, अयं भावः - नहि जिनकल्पिकपरिहृतत्वेन गच्छवासाचार्यादिवैयावृत्यधर्मोपदेशादिकमुपेक्षणीयं, न वा दश पूर्वधराद्यनाद्यतत्वेन जिनकल्पोऽप्युपेक्षणीयः, उभयोरपि जिनाज्ञायामेव वर्त्तित्वाद्, यदागमः - " जोवि दुवत्थ तिवत्थो एगेण अचेलगोऽवि संचरइ । नहु ते हीलिजिति सव्वेऽपि अ ते जिणाणाए || १ |त्ति श्रीआचा० टीकायां (१४५-२४६-३५८ पत्रेषु) नहि कृतसामायिकेन जिनपूजा न कृतान्त उपेक्षणीया, नवा जिनपूजापरायणै: सामायिकं न कृतमतः सामायिकमप्युपेक्षणीयं यथोचितकालपुरुपाद्यपेक्षयोभयोरपि जिनाज्ञात्वात् ननु तर्हि पूजादिकृत्यं प्रधानभावेन भणितं तदसंगत मेवापन्नमिति चेद हो भ्रान्तिर्भवतां, प्राधान्यमपि नैसरिंगकोपाधिकभेदेन द्विधा, एवमप्राधान्यमपि, तथा च यद्वस्तु यदपेक्षया निसर्गेण प्रधानं तदुपाधिनाप्रधानं, यदुपाधिना प्रधानं तन्निसर्गेणाप्रधानं, यथा रजतधात्वपेक्षया सुवर्ण निसर्गेण प्रधानं, तदेव यदि माषप्रमाणं स्यात्तदा गजप्रमाणरजतापेक्षया मूल्यमधिकृत्याप्रधानमपि तत्र बहुप्रमाणहेतुक बहुमूल्यत्वमेवोपाधिः, एवं निसर्गेणाप्रधानमपि सुवर्णापेक्षया रजतं माप प्रमाणसुवर्णापेक्षया स्वयं गजप्रमाणं सन्मूल्यमधिकृत्य प्रधानमपीत्येवं सामायिकादिष्वपि योजना कार्या, सा चैवं - बहु
For Personal and Private Use Only
GHONG
SHOKIGIOHO
पूजापौषधादीनां प्राधान्याप्राधान्ये
॥६५॥
www.jainelibrary.org