________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥६४॥
SO GHONSONANOK
सुमेरुर्महानित्युक्ते तस्य महत्त्वाधिक्यमाहात्म्यं स्यात्, निषेधादपि मेर्वादयोऽन्येऽपि महान्तः सन्ति, तथा च निषधादिमेरुपर्यन्ताना| मन्तरालवर्त्तित्वमप्यस्य संपद्येतेति सुमेरुमेंरोरपि लघीयान् भवन् केन वार्यते ?, एतेन प्रासादादिनिर्मापणापेक्षया सामायिकपौषधादिधर्मानुष्ठानं महानिर्जरहेतुरिति पराशङ्कापि व्युदस्ता, तथाविधप्रासादादिनिर्मापणादपि पौषधाद्यनुष्ठानस्य शोभनत्वे निरन्तरं यावजीवावधिकशुद्धपौषधानुष्ठानादपि चरित्रमधिकमित्येवं वक्तुमुचितत्वाद्, अन्यथा प्रासादनिर्मापणपौषधान्तरालवर्त्तिधर्मत्वापच्या तथाविधपौषधधर्मादपि साधुधर्मस्य न्यूनत्वाशङ्का दुर्निवारैव यत्तु सामायिकपौषधाद्यपि 'तओवि तवसंजमो अहिउ ति पदेनोपातमेव तन्न, तत एव मोक्षावाप्तेरिति, यत एवं तस्मात्सति सामर्थ्ये भावार्चने यतितव्यमिति व्याख्यानादधिकारस्यापि तथैव प्राप्त - त्वाच्छ्रीमहानिशीथेऽपि तथाविधप्रासादादिविधानादुत्कर्षतोऽप्यच्युत उपपातः तपःसंयमाच्च मोक्षावाप्तिरिति भणितत्वाच्च यस्तपःसंयमः साधुसंबन्धी स एव ग्राह्यो, न पुनः श्रावकसंवन्ध्यपि, तस्य सामायिकादप्यारम्भकलुषिताध्यवसायस्यानपायात् यतः स कृतसामायिको प्युद्दिष्टकृतं भुङ्क्ते यदागमः- “कडसामइओवि उद्दिकडंप से भुंजे" इतिश्रीनिशीथचूण, तेन वस्तुगत्या सामायिकाद्यनुष्टानं जिनाच्चतो न भिद्यते, सर्वत्राप्यारम्भपरिग्रहकलुषिताध्यवसायस्य समानत्वाद्, अत एव श्रावकसंबन्धिधर्मानुष्ठानमात्रस्यापि द्रव्यस्तवत्वमेव, यत्तु कापि सामायिकपौषधाद्यनुष्ठानं भावस्तवत्वेन भणितं तत्रापि सम्मतितया "कंचणमणिसोवाण"| मित्याद्युपदेशमाला संबन्धिनी गाथैव दर्शिता, तद्विचारणीयमस्तीति बोध्यं, यद्वा कथंचिद् बाह्यवृत्त्या साध्वनुकृतिमात्रेण तद्भणितं संभाव्यते, यथा सुवर्णरसरसिता रूप्यमुद्रिकाऽपि सोवणीञ्जेति भण्यते, तदनुकृत्याकृत्यादिमत्त्वात् ननु श्रावकधर्मानुष्ठानमात्रस्यापि द्रव्यस्तवत्वेन समानत्वे सत्यपि कृतसामायिकादिः सुश्रावकः पुष्पादिभिर्जिनपूजां न करोतीत्यतो ज्ञायते जिनपूजातः सामा
Jain Educationa International
For Personal and Private Use Only
HONGIONGOIGIOIGI
स्तवयोः
प्राधान्याप्राधान्ये
॥६४॥
ww.jainelibrary.org