________________
स्तवयोः
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥६॥
DrakshONGROIGONOROGROG
भिर्भगवदिम्बार्चन मिति न व्याख्यास्यत् , तथा व्याख्याने च तस्य मुख्यत्वमेव, मुख्ये हि भणिते शेषा गौणधर्माः स्वत एवोपलक्षणात्सिद्ध्यन्ति, यथा राजा गच्छतीत्युतेऽनुक्ता अपि पदात्यादयः परिकरभूता नरादयः, ननु भवद्भिः प्रासादादिविधापनादेः
प्राधान्या
प्राधान्ये प्राधान्यं भणितं 'भावचणे' त्यागमे च माल्यादिभिर्भगवबिम्बार्चनमित्युक्तं तत्कथमिव संगतिरिति चेदुच्यते, प्रासादादिविधापनं विना विम्बार्चनस्यैवासंभवात्तद्विधापनमनुक्तमपि व्यापकाभावेन सिद्धमिति नासंगतिगन्धोऽपि, अत एव श्रावकधर्मकृत्येष्वपि प्रासादविधापनस्यैव साधुधर्मप्रत्यासन्नत्वमभाणि, यदभाण्यागमे-"कंचणमणिसोवाणं थंभसहस्ससि सुवण्णतलं । जो कारिज जिणहरं तओवि तवसंजमो अहिओ ।।१॥"त्ति(४९४ उप.)अस्या व्याख्यानं-काञ्चनं-सुवर्ण मणयः-चन्द्रकान्ताद्यास्तत्प्रधानानि सोपानानि यसिंस्तत्तथा, स्तम्भसहस्रोच्छूितम् ,अनेन विस्तीर्णतामुद्भावयति, सुवर्णप्रधानं तलं यस्य तत्तथा,सर्वसौवर्णिकमित्यर्थः,यः कारयेत्-नि
पियेत् जिनगृहं-भगवद्भवनं ततोऽपि तथाविधजिनगृहकारणादपि, अप्यास्तामन्यस्मात् , तपःसंयमोऽधिका-समर्गलतरः, तत एव मोक्षावारिति, यत एवं तस्मात् सति सामर्थ्य भावार्चने यतितव्यमिति । अत्र आस्तामन्यत् सति सामर्थ्य भावार्चने यतितव्यमिति भणनेन श्रावकधर्मानुष्ठानेषूक्तलक्षणप्रासादविधापनाच्छेषकृत्यानां न्यूनत्वमेव सूचितं, यथा 'पीयुषादपि मधुरा वाणी ते वर्ण्यते | जिनामत्य रित्यत्र यावन्ति जगदुदरवर्तीनि शर्कराप्रभृतीनि वस्तूनि तान्यतिक्रम्यैवामृते माधुर्य, न पुनस्तेभ्यो न्यूनम् , अन्यथा तदपेक्षयापि यदधिकतरं मधुरं भवेत्तस्यैव तथावक्तुमुचितत्वात् , नहि कोऽपि सर्पपात्सुमेरुर्महानिति वचाप्रपञ्चेन सुमेरु गरिमाण-12 मारोहयन्ति, किंतु सर्षपसुमेोरन्तरालवर्तिनः क्रमेण प्रवर्द्धमानपरिमाणा बदरामलकनालिकेरादयो निषधनीलवन्मेरुपर्यन्तास्तेष्वपि सर्वोत्कृष्टपरिमाणः सुमेरुप्रत्यासन्नो धातकीखण्डगतो मेरुर्भवति, मेरोरपि सुमेरुमहानित्युक्ते सुमेरोगरिमा, न पुनर्निषधादपि ॥६३॥
SOHORIRRORISION
Jan Education Intenbon
For Personal and Private Use Only
www.jainelibrary.org