________________
स्तवयोः
श्रीप्रवचन-
परीक्षा ८ विश्रामे ॥६ ॥
GHOSHIGHEEMONGO
विद्यमानत्वाद् , एतच्च तृतीयविश्रामे किंचिद्दर्शितमिति बोध्यं, किंच-वस्तुगत्या श्रावकधर्ममात्रो द्रव्यस्तवः, साधुधर्मस्तु भावस्तवः, स च श्रावकधर्मपूर्वक एव, केवलभावस्तवस्वाङ्गीकारे श्रावकधर्मस्याप्युच्छेदापत्तेः, किंच-यो हि भावपूजाविषयः स च नियमात प्राधान्याद्रव्यपूजाविषयो, नान्यो, द्रव्यपूजाविषयत्वाभावे भावपूजाया अप्यविषयत्वात् , मिथ्याक्सुरवत् , ननु सिद्धानां द्रव्यपूजाविषय
प्राधान्ये त्याभावेऽपि भावपूजाविषयत्वमेवास्तीति चेन्मैवं, तेषामप्यर्हतामिव नामादिभिश्चातुर्विध्यात्स्थापनादिरूपाणां सिद्धानां पुष्पादिमिव्यपूजाया अध्यक्षसिद्धत्वात् , न च भावसिद्धानां तथाविधद्रव्यपूजाया असंभवे किंचिद्वाधकम् , अहंतामपि भावार्हत्त्वमुत्कर्षतोऽपि पूर्वलक्षणप्रमाणं,ततः पश्चात्तथा पूजाया अभावात् त्वदाशङ्कितबाधकस्यानिवार्यत्वात् , तस्मादाराध्यस्यापि भावरूपस्य पुष्पादिना द्रव्यपूजा पूज्यपूजकयोः साक्षात्संबन्धे सत्येव स्यात् , स च जगत्स्थित्या भावसिद्धानामसंभव्येव, भावार्हतामपि कदाचित्क एव, न सार्व-11 दिकः, स्थापनाहतस्तु पूजकसामर्थ्यसाध्यत्वात्प्रायो भवत्येव, तेन स्थापनार्हतः पूजा बलीयसी, सा च सिद्धानामप्यविरुद्धति सिद्धं द्रव्यपूजायोग्यस्यैव भावपूजायोग्यत्वं, यद्यपि भावस्य प्राधान्यं प्रवचनेऽभिहितं तथापि द्रव्यसापेक्षमेव तद् बोध्यं, यथा शरीरमध्ये हस्तपादाद्यङ्गापेक्षया मस्तकस्यैवोत्तमाङ्गत्वं शेषावयवसापेक्षमेव दृष्ट, नहि हस्तपादकण्ठादिभ्यः पृथग्भूतस्थापीत्यग्रे दर्शयिष्यते, अन्यथा साधुदानादिष्वपि द्रव्यदाननिरपेक्षस्यैव भावदानस्य प्राधान्येऽन्नपानादिद्रव्यदानस्याकिश्चित्करत्वापत्त्या प्रवचने लौकिक
मार्गे च वाचामगोचरमसमञ्जसमापयेत, तच्च तवाप्यनिष्टं, किंच-द्रव्यदाननिरपेक्षभावदानस्य प्राधान्यं तवाभिमतमङ्गीकृत्य प्रवर्त्तail मानेषु त्वद्भक्तेष्वस्माकं तुष्टिरेव, विनौपधेनापि व्याधिनाशात् ,किंच-भावपूजायां यदि प्राधान्यं तवाभिमतं तर्हि द्रव्यपूजाऽप्यवश्यममिमतैव, प्राधान्यं हि स्वजातीयेषु कथञ्चिद्गुणाधिक्यं, यथा जिनेषु तीर्थकृतां जिनप्राधान्यं, न चैतावता सामान्यकेवलिनामना
॥६॥
MOROHOROHOROGROLOROGROUGHOTI
Fored Pies