SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन-1 परीक्षा ६ विश्रामे ॥४॥ पौर्णिमीयक इत्याख्या, केचिच्च तदीया एव जिनप्रतिमानां पुरस्तात् कर्पूरवासजलफलादिपूजानिषेधनेन साधुमार्गप्रवर्तनात् सा कर्पूरादिपौर्णिमीयक इत्यपि बोध्यमितिगाथार्थः ॥९॥ अथ तस्य प्ररूपणामाह पूजानिषेधः कप्पूरवासजलफलदव्वेहिं न होइ दवजिणपूआ। सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥१०॥ कर्पूरवासजलफलद्रव्यैः द्रव्यजिनपूजा न भवति, कपूरेण-घनसारेण मिश्रितो यो वासः-चन्दनचूर्ण यद्वा कर्पूरश्च वासश्चेति द्वन्द्वः तेन ताभ्यां वा प्रातः श्राद्धैः पूजा क्रियते सा तेन प्रतिषिद्धा, तथा जलफलादीनां पुरो ढौकनेन याऽग्रपूजा क्रियते साऽपि तेन प्रतिषिद्धा, तत्राष्टप्रकारादिपूजासु वासादिभिः पूजा प्रतीतैव, यदुक्तं-"पंचोपचारजुत्ता पूआ अहोवयारकलिआ य। रिद्धि| विसेसेण पुणो नेआ सब्बोवयारावि ॥१॥ तहिअं पंचुवयारा कुसुमक्खयरगंध३धूवश्दीवहिं५ । कुसुम १ कखय २ गंध ३ पईव ४ाई धूव५नेवेज६फलजलेहि ८ पुणो ॥२॥ अढविहकम्महणणी अडवयारा हवइ पूआ ॥३॥ षट्पदी, सव्वोवयारपूआ ण्हवणच्चणवत्थभूसणाईहिं। फलबलिदीवाईनगीआरत्तिआईहिं ॥२॥ इति बृहद्भाष्यादौ, तथा 'अरहताणं भगवंताणं गंधमल्लपईवसम्मजण| विलेवणविचित्तबलिवत्थधूवाइएहिं पूआसकारेहिं पइदिणमन्भच्चणं पकुव्वाणा तित्थुत्थप्पणं करेमो'त्ति श्रीमहानिशीथे तृतीयाध्ययने, इत्याद्यागमेषु कर्पूरवासजलफलप्रदीपादिद्रव्यैर्द्रव्यपूजायाः सद्भावात् , तथा परम्पराया अपि विद्यमानत्वाच्चात्किचित्कर एवास्योपदेशः । शेषम् एतत्प्ररूपणादतिरिक्तमुपदेशममुखम्-उपदेशप्रवृत्यादिकं पूर्णिमासदृशं-पौर्णिमीयकमतसमानं ज्ञातव्यं, द्वितीयवि-10 श्रामे वर्णितो यो राकारक्तः पूर्णिमापाक्षिकादिवितथप्ररूपणाऽऽसक्तस्तन्निराकरणमत्रापि बोध्यमितिगाथार्थः ॥१०॥ अथ पञ्चमविश्रामोपसंहारमाह ॥४॥ Fored Pies
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy