________________
श्रीप्रवचन
परीक्षा ६ विश्रामे
सार्धपौर्णिमीयकः
विख्यात इत्यादि यावन्मुनिचन्द्रसू रिमत्सरेण चन्द्रप्रभाचार्यः पूर्णिमापक्षं पादुष्कृतवानित्यादि द्वितीयविश्रामोक्तं सर्वमप्युक्तमिति| गाथार्थः ॥४॥ तत्स्वरूपं निशम्य गज्ञा भणितम्-अयं सिद्धान्ताशातको महापापः, ततो मे राज्ये मा तिष्ठतु इति चिन्तयित्वा
मूरिर्विज्ञप्तः-एतादृशो मे राज्यात्कथं निष्काश्य इत्यादीतिगाथार्थः ॥५॥ सूरिभणितेन विधिना, तत्र विधिरेवं-प्रथमं श्रीसूरिणा | भो पौर्णमीयक पूर्णिमापाक्षिकं न सिद्धान्ते न वा परम्परायामिति, अत्र यदि तव समीहा स्यात् तदा विचारयाम इत्युक्ते भणितवान् "रूसउ कुमरनरिंदो अहवा रूसउ हेमसूरिंदो। रूसउ य वीरजिणिंदो तहावि मे पुण्णिमापक्खो॥१॥" इत्यनुचितवचसा विशेषतो रुष्टेन राज्ञा भणितं "साहूण चेइआण य पडिणीअं तह अवण्णवायं च । जिणपत्रयणस्स अहिअं सव्वत्थामेण वारेइ ॥"त्ति | भगवदुपदेशात् मया किं कर्त्तव्यमित्यादि, ततः श्रीमूरिणा प्रवचनोड्डाहं चेतस्यवधृत्य रोषादुपशामितेन राज्ञा निजराज्याद्-अष्टा| दशदेशेभ्यो निष्काशितः पूर्णिमीयकः, एवं कियता कालेन सूरौ-श्रीहेमचन्द्राचार्ये दिवं गते सति राजा-कुमारपालनामापि दिवं गत इतिगाथार्थः॥६॥ इदानीं पत्तनादौ कीदृग् व्यतिकरोऽस्तीति विलोकननिमितं रहश्चर्यया-न्यग्वृत्त्या नाम्ना सुमतिसिंहाचार्यः पत्तने समागतः, तत्र दृष्टः सन् लोकेन पृष्टः कोऽसि त्वमितिगाथार्थः॥७॥ तेन-सुमतिसिंहाचार्येणोत्सुकेन-निर्भयतया सोत्साहोत्कर्षेण साईशब्दः पूर्व यस्य स एवंविधः पौर्णिमीयकः-सा पौर्णिमीयकोऽहमिति भणितमित्यर्थः, तत आरभ्य तत्संततिस्तन्नाम्ना जातेतीदं वृद्धवचनमितिगाथार्थः ॥८॥ अथ केचित्तदीया वदन्ति यत्तदाह
केइवि भणंति पुण्णिमसमुदाए सुमइसिंह आयरिओ। पगईए सोमालो तेणं सो साहपुणिमिओ ॥९॥ केचित्पूर्णिमीयका भणन्ति-पूर्णिमासमुदाये सुमतिसिंहाचार्यः प्रकृत्या सुकुमारः, मृदुभकृतिक इत्यर्थः, तेन तदपत्यानां साधु
AGRONGHAGHONGEOGHANSHORORS
For Personal and Private Use Only