________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५५॥
OSHOSHOHOR
Geo.H
| निजमुखविवरनिर्गतं प्रमाणमेव ब्रुवाणो मुग्धजनान् विप्रतारयति, अतस्तत्परमार्थपरिजिज्ञासुना तट्टीका विलोकनीया, सा चैवं- 'से बेमी' त्यादि सूत्र, गौतमखाम्याह-यथा सोऽहं योऽहं ब्रवीमि तीर्थकरवचनावगततत्त्वचः श्रद्धेयवचन इति यदिवा शौद्धोदनिशिष्यामिमतक्षणिकत्वव्युदासेनाह - येन मया पूर्वमभाणि सोऽहमद्यापि प्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे, यत् श्रद्धाने सम्यक्त्वं भवति तदहं तवं ब्रवीमि येऽतीताः - अतिक्रान्ताः, ये च प्रत्युत्पन्नाः - वर्त्तमानकालभाविनो ये चागामिनस्ते एवं प्ररूपयन्तीति । संबन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ताः, अनागता अप्यनन्ता:, आगामिकालस्यानन्तत्वात्, तेपां च सर्वदैव भावादिति वर्त्तमानतीर्थकृतां प्रज्ञापकापेक्षितयाऽनवस्थितत्वे सत्यप्युत्कृष्टजधन्यपदिन एवं कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसंभविनः सप्तत्युत्तरशतं तच्चैवं पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् २, पञ्चस्वपि भरतेषु पञ्चस्वेव भैरवतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिता षष्ट्युत्तरं शतं भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्य वस्तु विंशतिः, सा | चैवं - पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतट सद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिः, भरतेरावतयोरेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते - मेरोः पूर्वापरविदेहयो रेकैकसद्भावान्महाविदेहे द्वावेव ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः - "सत्तरसयमुकोसं इअरे दस समयखित्तजिणमाणं । चोत्तीस पढमदीवे अणंतरद्धे अ ते दुगुणा || १ || " के इमे १ - अर्हन्तः - अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते, यदुत्तरत्र वक्ष्यते, वर्त्तमान निर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम् - एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां पर्षदि अर्द्धमागधया सर्व सवस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपानादायान्तेवासिनो जीवाजीवाश्रवबन्धसंवरनिर्ज
Jain Educationa International
For Personal and Private Use Only
GORIGING ONGHOR:
सव्वे पाणे
तिसूत्रव्याख्या
॥६५॥
www.jainelibrary.org