SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५३॥ Jain Educationa SONGSINGHOSHOHOISONGS तम्हा जे उम्मग्गा लोए दी लंति तेसि पावयरो। मयमूलंकियमग्गो कडुअंकि अकडु अमरगुच्च ॥ ६२ ॥ यस्माल्लुम्पकमते धर्मप्राप्तिर्नाचार्यपरम्परातो न वा पुस्तकाद, किंतु स्वतः, तस्मात् कारणाद् ये लोके उन्मार्गा दृश्यन्ते, तत्रोन्मार्गा द्विविधाः - लौकिका लोकोत्तराच, तंत्र लौकिकाः शाक्यादीनां मार्गाः, लोको तरास्तु दिगम्बर कारक्तादिपाशपर्यन्तानामव्यक्तानां मार्गाः, तेषां मध्ये मतमूलाङ्कितमार्गाः पाशचन्द्रीयादयो बहवः सन्ति तथाप्यधिकारात् मतं तावत्प्रतिमोत्थापनाद्युपदेशमाश्रितं तस्य मूलं - लुम्पकलेखकस्तेनाङ्कितः - चिह्नीकृतो मार्गो लुम्पकमार्गः, स च पापतरः- अतिशयेन पापभागू, यद्यप्येतदपेक्षया तीर्थमत्यासन्ना राकारक्तादिपाशपर्यन्ताः पापीयांसः केषांचिन्मुग्धानां तीर्थान्तर्वर्त्तिनामपि तीर्थसाम्यबुद्धिजनकत्वेन महापापहेतुत्वात्, तथापि तथाविधानुचितकुलादिष्वनुचित विधिनाऽनुचितान्नपानादिग्रहणादीनां चीवरखण्डमश्रणप्रस्तरादिभिरपि शौचाचारेण च तीर्थखिंसादिहेतुत्वाद्राकारक्ताद्यपेक्षया प्रायः स्थूलधीधनानां प्रतीतिविषयत्वाच्च पापतर इति भणितं, ननु कथं तीर्थखिंसेति चेच्छृणु, प्रायो बहवो जनाः कथञ्चिद्वेषसाम्यं दृष्ट्वा अहो एतेऽपि जैना एतादृशा अनुचितप्रवृत्तिभाजस्तर्हि शेषा अप्यनुचितप्रवृत्तिभाज एव भवि - व्यंतीतिरूपेण तीर्थस्य महाशातनाहेतुरित्यभिप्रायेणैतदुक्तमिति बोध्यं, राकारक्तादयस्त्वेभ्योऽपि पापात्मानः, परं सूक्ष्मधीगम्या इत्यर्थः, लुम्पकः पापतरः किंवदिति दृष्टान्तमाह-'कड्डुअ' त्ति कटुकाङ्कितकटुकमार्गवत् कटुकनामा गृहस्थस्तन्नामाङ्कितो यः कटुकमार्गः संप्रति साधवो न दृक्पथमायान्तीति साधुनाशलक्षणस्तद्वत् कटुकस्य हि साधु निन्दायामनीदृशत्वेन लुम्पकवन्महापातकित्वं सर्वजनप्रतीतं स्थूलबुद्ध्याऽपि गम्यम्, अतः शेषकुपाक्षिक परित्यागेनैप एव दृष्टान्तीकृत इतिगाथार्थः ॥ ६२ ॥ इति लुम्पकपथप्रातिस्वरूपं विचारितं । अथ तस्योपदेशलक्षणं तृतीयं विचारणीयमाह - For Personal and Private Use Only prakaraoke GOINGHOTOC लुंपकस्य पापतरता ॥५३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy