________________
श्रीप्रवचन- द्वादशावर्त्तवन्दनकं ददातीत्यत्र कथं मुखबत्रिका प्रतिलिरूयते १ कथं चावर्त्ताकृतिर्विधीयते ?, नहि लिखितमात्रेण तदनुष्ठानविधिः सम्यग्विधातुं शक्यते, एवं जगद्व्यवहारोऽपि दृश्यते, नतु लिखितमात्रेणेति गाथार्थः ॥ ६० ॥ अथ लिखितमात्रेणापि कार्यसिद्धिभविष्यतीति पराशङ्कामपाकरोति
परीक्षा ८ विश्रामे
॥५२॥
CHOOT
SIDHONGHO
भोअणविवाहमंडणगमणागमणाइसद्दमित्तेणं । जइ तव्विहाणणाणं सम्मं ता पुत्थया धम्मो ॥१६॥ भोजनविवाह मण्डनगमनागमनादिशब्दमात्रेण यदि सम्यग् तद्विधानं-भोजनादीनां विधिस्तस्य ज्ञानं भवेत् तर्हि पुस्तका - त्सम्यग् धर्मो - धर्मविधिर्भवेद्, अयं भावः - देवदत्तेन भोजनं कृतमित्यत्र भोजनशब्देनानेन क्रमेण निष्पन्नमनेनैव च क्रमेण परिवेषितममुकेन संयोज्य वियोज्य चैतावद्भुक्तं त्यक्तं मधुरं लावणं सुखादं दुःखादं सुसंस्कृतं सुनिष्पन्नं चेत्यादिविधिः सम्यग् परिज्ञायेत तदा पुस्तकाद्धर्मः सम्यग् ज्ञायेत, एवमनेन देवदत्तेन पुत्रादेर्विवाहः कृत इत्यत्र विवाहशब्देन यावद्यथाभूतविवाहादिसमग्रसामग्र्याः परिज्ञानं स्यात्, तथा देवदत्तो भूषणैरलङ्कृत इत्यत्रालङ्कारशब्देन व्यक्त्याऽलङ्कारनामपरिधानादिपरिज्ञानं स्यात्, तथा स | देवदत्तो गत इत्यत्र गमनशब्देनोद्दिष्टदिग्ग्रामकार्यादीनां सर्वेषामपि सम्यक्परिज्ञानं स्याद्, एवमागमनेऽप्यादिशब्दात्प्रासादादीनां परिग्रहः, संप्रतिराज्ञा श्रीवीरप्रासादः कारित इत्यत्र संप्रतिराजव्यतिकरप्रासादकरणविधिव्यतिकर श्रीमहावीरव्यतिकरादीनां सम्यग्ज्ञानं स्यात् तदा केवल पुस्तकाद्धर्मविधिर्लभ्येत, तथा यथागमे साधुसेवनादिना सम्यक्त्वादि प्राप्तिर्भणिता न तथा क्वापि पुस्तकादपीत्यत्र बहु वक्तव्यं ग्रन्थविस्तरभयादनुक्तमप्यत्र स्वयमालोच्यमिति गाथार्थः ॥ ६१ ॥ अथ तत्पथप्राप्तिलक्षणस्य द्वितीयविचारस्य तात्पर्यमाह
Jain Educationa International
For Personal and Private Use Only
3}O!!G%0%GOTONGONGHOROKORT
पुस्तकधर्मिता
निरासः
॥५२॥
www.jainelibrary.org