________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥५१॥
MONG
NGHONGKONG
अनुभूतानां - स्पर्शादीन्द्रियजन्यज्ञानविषयीभूतानां पदार्थानां मध्ये देशः- तत्संबन्ध्येकदेशो भाषाविषयो भवति, नहि यांवदनुभूयते तावद्वक्तुं शक्यते इत्यर्थः, तस्यापि च-भाषाविषयस्यापि च देशो लिखनविषयो भवेत्, प्राकृतत्वादित्थं यावद्भाष्यते तन्मध्यादेकदेशो लिखितुं शक्यते, लौकिकव्यवहारोदाहरणात् - लौकिकव्यवहारे - क्रयविक्रयादौ यावन्ति वचनानि येन प्रकारेणोच्यन्ते न तावन्ति वचनानि तेन प्रकारेण लिख्यन्तेऽपि, किंतु तात्पर्यमात्रं पिण्डीकृत्य किंचिन्मात्रं लिख्यते, यथाऽमुकमेतावन्मात्रं त्वया देयं मया च लभ्यमिति न पुनः पूर्वं त्वयेत्थं भणितं मया चेत्थं प्रत्युत्तरितमित्यादि, न चैतावता प्रागुक्तमनुक्तायते लभ्य| देयादि, तात्पर्यं तु पूर्वोक्तवचनैरेव संपन्नमिति प्रागुक्तमलिखितमपि प्रमाणमेव, तथैव वचनप्रवृत्त्या तात्पर्योत्पत्तेः, तथा वचन - प्रवृत्तिरपि तत्तद्व्यापारनिपुणानां कुलक्रमायातैव स्यात्, न पुनः क्वापि दस्तर्यादौ लिखिताऽपीति गाथार्थः ।। ५८ ।। अथ प्रकृते दाष्टन्तिकं योजयति
Jain Educationa International
एवं जिणणायाणं भासाविसओ अनंतमो भागो । तस्सवि अप्पो भागो रइओ अंगाइपमुहेसु ||५९|| एवं प्रागुक्तदृष्टान्तेन जिनज्ञातानां पदार्थानामनन्ततमो भागो भाषाविषयो - गौतमादीनां पुरस्ताद्भाषिता येऽर्थास्ते ज्ञातानामनन्ततमोऽप्यंशोऽनन्तभागीकृतो बोध्यः, तस्याप्यल्पो भागोऽङ्गादिषु रचितः सोऽपि प्रागुक्तयुक्त्या तात्पर्यभूत इतिगाथार्थः॥५९॥ अथ लिखिताच्छेषाणामर्थानां गतिमाह
सेसा किरिआविसया आयारविही उ हुंति सूरिकमा । एवं जगववहारो दीसह न उ लिहिअमित्तेणं ॥ ६० ॥ लिखिताच्छेषा अर्थाः क्रियाविषया आचारविवयः सूरिक्रमाद्भवन्ति आचार्यपरम्परया ज्ञायन्ते, यथा सुखवस्त्रिकां प्रतिलिख्य
For Personal and Private Use Only
GHONGKONGHOGONOSISHORONGHO
पुस्तकधर्मित
निरासः
॥५॥
www.janelibrary.org