________________
HONGHOK
॥ ४९ ॥
श्रीप्रवचन- सिद्धंतो सुत्ताइं वित्तिप्पमुहाई नेव सिद्धंतो। जिणवूआइ अहम्मो आयरिअपरंपरा असुहा ||२४|| परीक्षा इच्चाइअ सिद्धते कत्थवि नत्थेव किंतु विवरीअं । उभयं चिअ विवरीअं भासतो भाससावि न किं ॥ ६६ ॥ युग्मं ॥ ८ विश्रामे सूत्राणि - अङ्गोपाङ्गादीनि सिद्धान्तः, एवकारः सर्वत्र संबध्यते, केवलसूत्राण्येव सिद्धान्तः, वृत्तिप्रमुखाणि - वृत्तिनिर्युक्तिभाण्यादीनि सिद्धान्तो नैव - न भवत्येव, जिनपूजादि, आदिशब्दात् प्रासादादीनां परिग्रहः, च समुच्चये गम्यः, अधर्मो धर्मो न भवत्येव, आचार्य परम्परा चाशुभा - अनुचितैवेत्यादि सिद्धान्ते कुत्रापि - क्वापि नास्त्येव, किंतु विपरीतं, वृत्यादिसंयुक्तमेव सूत्रं सिद्धान्तोऽन्यथा मिथ्यात्वहेतुत्वान्मिथ्याश्रुतमेव, निर्युक्त्याद्यपि सिद्धान्त एव, जिनपूजादि धर्म एव, आचार्यपरम्परामन्तरेण धर्म एव न भवतीत्याद्युभयमपि विपरीतं भाषमाणः - यत् सिद्धान्ते विद्यते तन्नास्ति यच्च नास्ति तदस्तीति ब्रुवाणो लुम्पकः किं न भस्मसात् १, कालानुभावाद्भस्मसान्न भवतीत्यर्थः, यच्चोभयविपरीत भाषणं तल्लुम्पकमतेऽग्रे तदुपदेशसिद्धान्तविचारावस रे स्वत एव व्यक्तीभविष्यतीति गाथायुग्मार्थः ।। ५४-५५ ।। अथ यदुक्तं भस्मसादिति तत्र हेतावुक्तेऽपि हेत्वन्तरमाह
जं लोइअलोउत्तरमग्गा भट्ठो उ उभयभडत्ति । लोअववहारबज्झो बज्झो निअमेण तित्थावि ॥५६॥ लौकिकलोकोत्तरमार्गभ्रष्टो - लौकिकलोकोत्तरव्यवहारशून्य उभय भ्रष्टः - ऐहिक पारत्रिक सुखपरिभ्रष्ट इति- अमुना प्रकारेण लोकव्यवहारबाह्यः सन् तीर्थादपि नियमेन बाह्य एव, अयं भावः - लोकव्यवहारस्तावल्लोकविरुद्धकृत्यानां परिहारेणैव स्यात्, लोकविरु कृत्यानि त्वस्य लुम्पकस्यालङ्कारभूतानि यत आस्तां निन्दनीयकुलादिष्वनुचितान्नपानादिग्रहणं, ये भाणकाद्याः प्राचीनवेषधरा आसन् ते बहिर्भूमौ गताः शौचाचारमपि चीवरखण्डैः प्रश्रवणपाषाणखण्डैश्च कृतवन्तः, अत एवाद्याप्यहो लुम्पकाः जुगुप्सनीयाः
HONGHONGHODINGHONIO
Jain Educationa Interratonal
For Personal and Private Use Only
Love Sports GKONG
पुस्तक
धर्मितानिरासः
॥४९॥
www.jainelibrary.org