SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ लुम्पक श्रीप्रवचन परीक्षा ८ विश्रामे ॥४१॥ अथ श्रुतधर्मेण पुरुषेणान्येषामपि धर्मः श्राव्यो नान्येनेत्यत्र दृष्टान्तमाह गम्भयइत्थी गब्भं धरेइ नन्नावि सुंदरीव सुरी। थणपाणं जीइ कयं सा सावच्चंपि कारिजा ॥३५॥ 'गर्भजस्वी'या स्वयं गर्भे उत्पन्ना सा गर्भजस्त्री गर्भ धरति, कुत्सितापि मानुषी तिर्यञ्ची वा गर्भ धरति, नान्यापि अगर्भजापि, वा इवार्थे, इव-यथा सुन्दरी-मनोज्ञा सुरी-देवाङ्गना, अपिगम्यः, सुन्दर्यपि देवाङ्गना यथा गर्भ न धरति, स्वयं गर्भेऽनुत्पन्नत्वाबादित्यर्थः, पुनरपि दृष्टान्तमाह-'थणपाणं ति यया स्त्रिया स्तन्यपानं-निजमातृस्तन्यपयःपानं कृतं स्यात् सा खापत्यमपि-निजपुत्र पुत्रीलक्षणमपि कारयति, स्तन्यपानमित्यत्रापि संबध्यते, न पुनरन्यापि यथा पक्षिणी, तया च स्वयं निजमातुः स्तन्यपयःपानं कृतं नास्त्यतः खापत्यमपि न कारयतीतिगाथार्थः ॥३५॥ अथ दार्शन्तिकयोजनामाहएवमणाइपवाहप्पडिओ जिणभासिओ हु सुअधम्मो। जो सउवएसविसओ नन्नोत्ति अ सासई मेरा ॥३६॥ एवं प्रागुक्तदृष्टान्ताभ्यामनादिप्रवाहपतितः-अनादिपरम्परामार्गगतो यो जिनभाषितो-हुरेवार्थे जिनभाषित एव धों | दुर्गतिपतत्प्राणिधरणसमर्थः सदुपदेशविषयः-परेभ्य उपदेशनीयो, नान्योऽश्रुतधर्मोऽपि, चोऽप्यर्थे, इयं शाश्वती मर्यादा-जगत्स्थितिबलीयसापि लङ्घयितुमशक्या, न चेयं मर्यादा जैनधर्मातिरिक्तधर्मपि शङ्कनीया, जैनप्रवचनातिरिक्तानां सर्वेषामपि नाममात्रेण धर्मत्वेऽपि वस्तुगत्या न धर्मत्वं, किंत्वधर्मत्वमेव, अधर्मस्तु जीवमात्रं प्रत्युपदेशमन्तरेणाप्यनादिप्रवाहपतितः स्वयंसिद्ध एव, यथा लुम्पकलेखकस्य जिनप्रतिमोत्थापनादिलक्षणो ह्यधर्म उपदेशमन्तरेणापि स्वयं सिद्धः, एवमन्येषामपि कुपाक्षिकाणां मार्गा| उपदेशमन्तरेणैव सिद्धाः, या तु तदनुजानां तथाविधोपदेशापेक्षा सा ह्यकिश्चित्कर्येव, यतो यदि लुम्पकमतीयानामेतदुन्मार्ग MSHOनक्षHONGOOROG मा- ॥४१॥ Educad For Pesonand Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy