SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३७॥ NTHON त्पन्नस्तत्संतानीभूय प्रवर्त्तमानो दृश्यंते, तथा प्रवृत्तौ च जगद्व्यवस्थाविष्ठवः प्रसज्येत, तस्मात् लुम्पकभाणकापत्यत्वमात्मनः ख्यापयन् सम्यग्वादी स्याद्, अन्यथा मृषाभाषी लोकव्यवहारबाह्यश्च, नहि लोकेऽपि नीचचाण्डालादिकुलोत्पन्नोऽपि स्वपित्रादिकमपलप्य कुलीनं महर्द्धिकं वा पित्रादिकं ब्रूते, अयं च लुम्पकभाणकावपलप्य सुधर्मादिकं पितृत्वेन ब्रुवाणस्ततोऽपि नीच इति बोध्यमितिगाथार्थः ॥ २८ ॥ अथ लुम्पकस्वरूपं कीदृक् सिद्धमित्याह एवं गुणनिष्फण्णं नामं तुम्हाण तुम्ह वयणेणं । अव्वत्तावत्तव्वा तुम्हे सेसा अवत्तव्वा ॥ २९ ॥ एवं प्रागुक्तखरूपेण युष्माकं वचनेनैव युष्माकं गुणनिष्पन्नं नाम अव्यक्तावक्तव्या यूयमिति सिद्धं तत्राव्यक्ता जैनशैववाह्या उत्सूत्रभाषिणो भण्यन्ते तेष्वपि लुम्पका अवक्तव्या - अमुकस्यापत्यानि वयमिति नाममात्रेणापि वक्तुमशक्ताः, शेषास्तु राकारक्तादयो नाममात्रेणामुकस्यापत्यानि वयमिति ब्रुवाणा अव्यक्ता एवेत्यपरैः सह मेद इतिगाथार्थः ॥ २९ ॥ इतिगाथाषट्रेन लुम्पकस्वरूपं दर्शितमिति ॥ इति लुम्पकस्वरूपं । लुम्पकमते धर्मप्राप्तिस्वरूपं विकल्प्य दूषयितुं प्रश्नयन्नाह - णणु तुम्हाणं धम्मो सुअधम्मो किमुअ दिट्ठधम्मो वा १ । पढमो सुअधम्माओ गुरुओ नय असुअधम्मावि |३०| ननु भो लुम्पका ! युष्माकं धर्मो - जिनप्रतिमोत्थापनादिरूपः श्रुतधर्मः किमुत दृष्टधर्मो वेति विकल्पद्वयी प्रश्नविषयीकार्या, तत्र श्रुतः - कस्यापि गुरोः समीपे श्रवणगोचरीकृत एवंविधो यो धर्मः स श्रुतधर्मः, गुरुवचनं श्रुत्वा ज्ञात इत्यर्थः, दृष्टधर्मस्तु यद्यपि न भवत्येव तथापि पुस्तकं दृष्ट्वाऽस्माभिर्धर्मोऽवगत इति लुम्पकमताभिप्रायेण द्वितीयविकल्प उद्भावित इति, विकल्पद्वये प्रश्निते प्रथमविकल्पस्य श्रुतधर्मस्य स्वरूपमाह - प्रथमः- श्रुतधर्मो गुरुतो - गुरोः सकाशाद्भवति, गुरुवचनं श्रुत्वैव भवतीत्यर्थः, तत्र गुरुरपि Jain Educationa International For Personal and Private Use Only HONGKONG% लुम्पक स्वरूपं ॥३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy