SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३७॥ NTHON त्पन्नस्तत्संतानीभूय प्रवर्त्तमानो दृश्यंते, तथा प्रवृत्तौ च जगद्व्यवस्थाविष्ठवः प्रसज्येत, तस्मात् लुम्पकभाणकापत्यत्वमात्मनः ख्यापयन् सम्यग्वादी स्याद्, अन्यथा मृषाभाषी लोकव्यवहारबाह्यश्च, नहि लोकेऽपि नीचचाण्डालादिकुलोत्पन्नोऽपि स्वपित्रादिकमपलप्य कुलीनं महर्द्धिकं वा पित्रादिकं ब्रूते, अयं च लुम्पकभाणकावपलप्य सुधर्मादिकं पितृत्वेन ब्रुवाणस्ततोऽपि नीच इति बोध्यमितिगाथार्थः ॥ २८ ॥ अथ लुम्पकस्वरूपं कीदृक् सिद्धमित्याह एवं गुणनिष्फण्णं नामं तुम्हाण तुम्ह वयणेणं । अव्वत्तावत्तव्वा तुम्हे सेसा अवत्तव्वा ॥ २९ ॥ एवं प्रागुक्तखरूपेण युष्माकं वचनेनैव युष्माकं गुणनिष्पन्नं नाम अव्यक्तावक्तव्या यूयमिति सिद्धं तत्राव्यक्ता जैनशैववाह्या उत्सूत्रभाषिणो भण्यन्ते तेष्वपि लुम्पका अवक्तव्या - अमुकस्यापत्यानि वयमिति नाममात्रेणापि वक्तुमशक्ताः, शेषास्तु राकारक्तादयो नाममात्रेणामुकस्यापत्यानि वयमिति ब्रुवाणा अव्यक्ता एवेत्यपरैः सह मेद इतिगाथार्थः ॥ २९ ॥ इतिगाथाषट्रेन लुम्पकस्वरूपं दर्शितमिति ॥ इति लुम्पकस्वरूपं । लुम्पकमते धर्मप्राप्तिस्वरूपं विकल्प्य दूषयितुं प्रश्नयन्नाह - णणु तुम्हाणं धम्मो सुअधम्मो किमुअ दिट्ठधम्मो वा १ । पढमो सुअधम्माओ गुरुओ नय असुअधम्मावि |३०| ननु भो लुम्पका ! युष्माकं धर्मो - जिनप्रतिमोत्थापनादिरूपः श्रुतधर्मः किमुत दृष्टधर्मो वेति विकल्पद्वयी प्रश्नविषयीकार्या, तत्र श्रुतः - कस्यापि गुरोः समीपे श्रवणगोचरीकृत एवंविधो यो धर्मः स श्रुतधर्मः, गुरुवचनं श्रुत्वा ज्ञात इत्यर्थः, दृष्टधर्मस्तु यद्यपि न भवत्येव तथापि पुस्तकं दृष्ट्वाऽस्माभिर्धर्मोऽवगत इति लुम्पकमताभिप्रायेण द्वितीयविकल्प उद्भावित इति, विकल्पद्वये प्रश्निते प्रथमविकल्पस्य श्रुतधर्मस्य स्वरूपमाह - प्रथमः- श्रुतधर्मो गुरुतो - गुरोः सकाशाद्भवति, गुरुवचनं श्रुत्वैव भवतीत्यर्थः, तत्र गुरुरपि Jain Educationa International For Personal and Private Use Only HONGKONG% लुम्पक स्वरूपं ॥३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy