________________
(प्रवचनपरीक्षा विश्रामे ॥३६॥
GIOSIONGONGHONGKONGOINGHO
च-अत्रापि प्रष्टव्यं भो भवतां लुम्पकमतपरम्परा सम्मता असम्मता वा १, आद्ये श्रीसुधर्मस्वामिनोऽच्छिन्नागतया परम्परया किमपराद्धं ?, यतस्तां परम्परां परित्यज्य लुम्पकमतपरम्पराऽभ्युपगम्यते, एवं च सति स्वमुखेनैव जैनप्रवचनाद्वाह्यत्वमप्यात्मन उद्घोषितम् अथ लुम्पकमतपरम्परापि न सम्मतेति द्वितीयपक्षश्चेत् सम्मतमेव ब्रूषे, परमध्यक्षमेव मृषाभाषित्वं लक्ष्यते, नो चेल्लुम्पकमतपरम्परा त्यागे जिनप्रतिमाया अवश्यमेव स्वीकारापत्तेः कथं जिनप्रतिमा नाराध्यते १ तस्मात्परम्पराऽस्माकं न प्रमाणमिति वदता लुम्पकमतपरम्पराङ्गीकारे च माता मे वन्ध्येति न्यायोऽभ्युपगत इतिगाथार्थः॥२६॥ अथ शैवधर्मित्वमपि लुम्पकस्य नास्तीति दर्शयतिसिवधम्मआ य हरिहरवं भाईणं हवंति भत्तिजुआ । तंपि अणिहं तुम्हं तम्हा तहए अवत्तव्वा ||२७|| शैवधार्मिका हरिहरब्रह्मादीनां भक्तियुता भवन्ति, तदपि युष्माकमनिष्टं, तस्मात्कारणात् तृतीये - जैनशैवधर्मव्यतिरिक्ते विकल्पे अवक्तव्या भवन्तो, न पुनर्वक्तव्या इति पारिशेष्यात्संपन्नमितिगाथार्थः ||२७|| अथ यत एवं ततः किमागतमित्याह
तेणमवलाववयणं जुत्तं तुम्हाण धम्मदायाणं । उवएसवेसमूलाणं (ण हु) लुंपगभाणगाणंपि ॥ २८ ॥ येन कारणेन न जैना न च शैवाः, किंतु ताभ्यां व्यतिरिक्तास्तत्राप्यवक्तव्या न पुनरमुकनाम्नेति वक्तुं शक्यास्तेन कारणेनापलापवचनं युक्तं, केषां १ - युष्माकं धर्मदायकयोः - प्रतिमानिन्दात्मकमार्गदात्रोः, किंनाम्नोः १-लुम्पकभाणक्योः - लुम्पकभाणकनाम्नोः, किंलक्षणयोः १-उपदेशवेषमूलयोः, अपिर्व्यवहितः संबध्यते, उपदेशवेषमूलयोरपि उपदेशमूलं लुम्पको वेषमूलं च भाणक इति द्वयोरपि नामाप्यपलप्य वयं श्रीसुधर्मस्वामिनोऽपत्यानीति प्रत्यक्षमृषाभाषिणः, नाच्छिन्नशिष्यप्रशिष्या दिसंबन्धमन्तरेण कोऽपि कस्याप्यपत्यं भवितुमर्हति एतच्च लोकेऽपि प्रतीतमेव, न हि कोऽपि कस्यापि कुलाचारमङ्गीकृत्यापि तगृहे वसमानोऽपि तत्कुलानु
Jain Education International
For Personal and Private Use Only
GOING ONGOONGSONG
लुम्पकस्वरूपं
॥३६॥
www.jainelibrary.org