________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥३४॥
Jain Educationa
ORG
बलवत्कारणमन्तरेण बलवत्कार्यानुपपत्तेः, नहि तृणसामग्र्या तरुर्जन्यते, तत्कारणं खलुरवधारणे आश्चर्यान्नान्यत् संज्ञिनां - सम्यशां मतिविषयो-ज्ञानगोचरः स्यात्, किंत्वाश्चर्यमेव तत्कारणमनन्यगत्या सिद्धमितिगाथार्थः ॥ २१ ॥ ननु सिद्धान्तादपि प्रतिमानां बलवत्त्वं कथमिति पराशङ्कायां गतिमाह
बलवत्तं साविक्त्रं साविकखं चैव दुब्बलत्तंपि । पभणिस्सं पडिमाणं तस्सुवएसाहिगारंमि ॥ २२ ॥
प्रतिमानां सिद्धान्तापेक्षया बलवत्त्वं सापेक्षं, दुर्बलत्वमपि सापेक्षमेव, 'प्रभणिष्यामि' प्रकर्षेण - दृष्टान्तबाहुल्येन भणिष्यामि, कस्मिन् ? -तस्योपदेशाधिकारे - लुम्पकस्योपदेशोऽग्रे वर्णयिष्यते तत्र तन्निराकरणप्रसङ्गगतं वक्ष्यामीतिगाथार्थः ||२२|| अथ पुनरप्याश्रयं द्रढयति
ततोऽवि अ बलवंते तित्थे संतंमि नत्थि सिद्धते । जिणपडिमाइ अचित्तं वृच्चंतो दंतवंतमुहो ॥ २३ ॥
ततोऽपि - जिनप्रतिमाया अपि च पुनरर्थे बलवति तीर्थे सति-विद्यमाने, सिद्धान्ता जिनप्रतिमा बलवती, ततोऽपि तीर्थं बलवद्, तीर्थकरनमस्करणीयत्वाद्, धर्मदेशनायां नमस्तीर्थायेति भणित्वा धर्ममुपदिशति जिनेन्द्रोऽपि, यदागमः- “तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं जोअणनीहारिणा भयवं ॥ १ ॥ "ति (श्रीआव० नि० ५६६) न चैवं नमः सिद्धान्ताय जिनप्रतिमायै वेति, तस्मात्तीर्थं सर्वेभ्योऽपि बलवद्, अत एव तीर्थाभ्युपगतपर्युषणाचतुर्थीमनङ्गीकुर्वनर्हदादीनां सर्वेषामप्याशातनाकारी तीर्थ| बाह्यो नियमादनन्तसंसारीत्यादिवचोभिर्भणितोऽपि सिद्धान्तसम्मत्या समर्थितः खोपज्ञपर्युषणादशशतकवृत्तावपि, एवं च सर्वबलसंपन्ने तीर्थे विद्यमानेऽपि सिद्धान्ते भणितं नास्तीत्याद्युपदेशं ददत् सर्वजनसमक्षं प्रलपन् लुम्पको दन्तवन्मुखो - दशनसंयुक्तानन
For Personal and Private Use Only
BHONGKONGYONGOING ONGONGHON
प्रतिमाया बलवत्ता
॥३४॥
www.jainelibrary.org.