________________
भीप्रवचन
परीक्षा ८ विश्रामे ॥३३॥
प्रतिमाया बलवत्ता
PAGHONORMOHNORONOHOOHOUGHOUG
इव प्रतिमायामन्यथा प्रवर्तयितुमशक्त इति दर्शयतिनामजुओ सिद्धंतो नामागारेहिं होइ जिणपडिमा। तम्हा खलु सिद्धंता जिणपडिमा होइ बलवंती ॥१९॥
सिद्धान्तो नामयुक्तो भवति 'समणस्स भगवओ महावीरस्से त्यादिरूपेण यन्महावीर इति नाम तेनैव युक्तः सिद्धान्तः स्यात् , | सिद्धान्ते वस्तुवाचकशब्दानामेवोपलब्धेरित्यर्थः, जिनप्रतिमा तुरित्यध्याहार्यः जिनप्रतिमा तु नामाकाराभ्यां, युक्तेत्यत्रापि संबन्धनीयं भवति, तस्मात् खलु-निश्चितं सिद्धान्ताजिनप्रतिमा बलवती भवति, जिनप्रतिमाऽऽराधनशङ्कानिराकृतये इति सर्वत्रापि योजनीयम् , अन्यथा वस्तुव्यवस्थाभङ्गप्रसङ्ग इतिगाथार्थः ॥१९॥ अथाकारमात्राधिक्येन बलवत्त्वं कथमित्याहजह वयणा वयणठिआ लिहिआगारेण वयणमिह बलवं । लिहिएण य लोविजइ भासिअवयणंति जगवाओ।२०। । यथा वदनस्थितात-मुखमात्रस्थितात मुखेनैवोच्चार्यमाणाद्वचनाल्लिखिताकारेण-अकारादिवर्णानां पुस्तकादौ लिप्या इह-जगति वचनं बलवद्, अत एव लिखितेन च भाषितवचनं लोप्यते इतिजगत्प्रवादः, अयं भावः-इयं श्रीऋषभजिनप्रतिमेयं च श्रीवीरस्येत्यादिरूपेण नामाङ्किता जिनप्रतिमा भवन्ति, तथा लाञ्छनवर्णाकृत्यादिसमन्विताश्च, न चैवं सिद्धान्तः, अत एव प्रतिमादर्शनात | सिद्धान्तवाक्यरचना भवति, न पुनः सिद्धान्तवाक्यात् प्रतिमाकृतिनिर्मापणमपि, तसादेव जम्बूद्वीपाद्याकृतिमत्पट्टकादीनां सार्थक्यमितिगाथार्थः ॥२०॥ अथानन्यगत्याऽपि लुम्पकमतोत्पत्तावाश्चर्य दर्शयति
बलवंतबिंबलोवे बलवंतं कारणंपि कपिज्जं । तं खलु अच्छेराओ नन्नं सन्नीण मइविसओ॥२१॥ बलवबिम्बलोपे-प्रागुक्तवक्ष्यणाणयुच्या सिद्धान्तापेक्षया बलवत्या अपि जिनप्रतिमाया लोपे कारणमपि बलवत् कल्प्यं,
॥३३॥
For Person and Private Use Only