________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥३२॥
GHOONDON
"
॥१॥ | "त्ति श्रीबृह० प्रागुक्तं, तत्र प्रतिमा सम्यक्त्वादिहेतुः इत्येवंरूपेणोपदेशवचनरचना, तस्माच्छ्रावकैर्निर्मापिताः श्रावक निर्मापिताः प्रासादा उपलक्षणात् प्रतिमाप्रतिष्ठादयो बलवन्तः किमर्थं ? - ' प्रत्ययार्थं प्रतिवाद्युद्भावितविप्रतिपत्तौ निश्रयकरणार्थं, न पुनः सर्वत्रापि, अयं भावः - जिनप्रासादप्रतिमादयः सम्यक्त्वादिप्राप्तिहेतवो भवन्तीत्यत्र किं प्रमाणं प्रत्यक्षमागमो वेत्यादिविचारणायामागमापेक्षया प्रत्यक्षं बलवत्, प्रासादादयस्तु प्रत्यक्षं प्रत्यक्षप्रमाणविषयत्वात् तथाहि - 'आप्तोक्तिः समयागमा' वितिवचनादाप्तवचनं हि सिद्धान्तः, तत्रागमव्यवहारिणः पूर्वोक्ताः षट् पुरुषा नियमेनाप्ताः, शेषास्तु भाज्याः, तत्र श्री आर्यसुहस्तिस्वरिस्तावद्दशपूर्वधरस्तत्प्रतिबोधितेन संप्रतिराज्ञा (जैन) प्रासादप्रतिमाप्रतिष्ठापूजादिकं कारयता कुर्वता च श्री आर्यसुहस्तिसूरिधर्मोपदेश वचः सफलीकृतं, बहुवित्तव्ययसाध्यस्य जिनप्रतिमाप्रासादादेः कृत्यस्य गुरूपदेशमन्तरेणासंभवात्, प्रवचने धर्मकृत्यस्याज्ञयैव सफलत्वाद्, आज्ञामन्तरेणापि जिनप्रतिमाप्रतिष्ठा निषेधकगुरुप्रतिबोधितश्रावककारितजिनप्रासादप्रतिमादेरसंभवात्, नहि लुम्पकमतीयेन केनापि क्वापि जिनप्रासादादिकं विधाप्यमानं दृष्टं श्रुतं वा, तथा च श्रीसुहस्तीसूरिवचः सिद्धान्तः, तच्च फलवद्भवति वा नवा, परं श्रीसंप्रतिराज्ञा तु तद्विहितमेव, अतः सम्यक्त्वादिहेतुतया जिनप्रासादादिकं चक्षुरादिप्रत्यक्षप्रमाणविषयः सिद्धान्तापेक्षया बलवदेवेतिगाथार्थः ॥ १७ ॥ अथ प्रकारान्तरेणापि बलवत्त्वमाह
महदोसा सद्दत्थं होइ समत्थोऽवि अण्णहा वोत्तुं । जह चेइअसद्दत्थं साहुत्ति भइ महमूढो ॥१८॥ मतेर्दोषो-मिथ्यात्वं तद्वशाच्छब्दार्थमन्यथा वक्तुं समर्थो भवति, यथा मतिमूढो लुम्पकञ्चैत्यशब्दार्थं साधुरिति भणति, चैत्यशब्देन साधुर्भण्यते इत्यन्यथा ब्रुवाणस्य लुम्पकस्याशुचिलिप्तं लपनं कः पाणिना पिदधातीत्यर्थः, इतिगाथार्थः ||१८|| अथ सिद्धान्त
Jain Education International
For Personal and Private Use Only
DHOONDHONGKONGNS ONGHONNCHOK
प्रतिमाया बलवत्ता
॥३२॥
www.jainelibrary.org