SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥३०॥ पाशचित्रामोपसंहारः TGROUGHOGHOOMGHONGOOKज दर्शनाय गाथामाहनवहत्थकायरायंकियसममहिममि चित्तसिअपक्खे । गुरुदेवयपुण्णुदए सिरिहीरविजयसुगुरुवारे ।।३८॥ संवत्सरस्य पक्षे त्वेवं-नवहस्तशब्दो क्रमेण नवद्विकसंख्याभिधायको कायाः-पृथिव्यादयः समयभाषया षट् , पसंख्यावाची कायशब्दः, राजा-चंद्रः, स चैकत्वसंख्यावाची ज्योतिर्विदा प्रतीतः, एतैः शब्दः 'अंकानां वामतो गति रिति वचनात् क्रमेण येकाः ते जाता यासु ता नवहस्तकायराजांकिताः, एवंविधाः समाः,समाशब्दो बहुवचनांतः,ततः ते संवत्सरास्तासां महिमा-नामग्रहणादिना ख्यातिर्यस्मिन् , एवं विधे संवत्सरे इत्यर्थः,मधुमासस्य शुक्लपक्षे तत्रापि 'श्रीहीरविजयगुरुवारें श्रिया-शोभया हिनोतिवर्द्धते सुरगुरुत्वाद्यः स श्रीहित रवेः-सूर्यस्य जयो यस्मात् स रविजयः, सूर्यबृहस्पत्योः परस्परं मैत्रीसद्भावात् 'रवेः शुक्रशनी शत्रू,ज्ञः समः सुहृदः परे'इति, तथा 'जीवस्यार्कात् त्रयो मित्राः इति वचनात् बृहस्पतेः सकाशात् स्वेर्जयो भवत्येव, ततश्च श्रीहिच्च रविजय थेति विशेषणसमासः,एवंविधो यः सु-शोभनो गुरुः-बृहस्पतिः तन्नाम्ना वारस्तमिन् श्रीहिद्रविजयसुगुरुवारे,किंलक्षणेः-'गुरुदैवतपूर्णोदये'-गुरुदैवतः-पुष्यः पूर्णा चार्थाद्दशमी, चैत्रशुक्लपक्षे पंचमीपंचदश्योः पूर्णातिथ्योः पुष्यनक्षत्रायोगात् , तयोरुदयो यत्र स गुरुदैवतपूर्णोदयस्तसिन् ,सं. १६२९ वर्षे चैत्रसितदशमीतिथौ बृहस्पतिवारे पुष्यनक्षत्रे चंद्रे चरति सति इति भावार्थः । गुरुपक्षे पुनर्व्याख्यानं यथा-श्रीहीरविजयसुगुरुवारे-सुविहितागणीश्रीहीरविजयसूरीश्वरराज्ये प्रवर्त्तमाने,किंलक्षणे?,'नवहत्थे'त्यादि, नव हस्ताः प्रमाणं यस्य एवंविधः काय:-शरीरं यस्य स चासौ राजा च नवहस्तकायराज:-श्रीपार्श्वनाथस्तेनांकितः-अवच्छिन्नोऽर्थात् या कालस्तेन समा-सदृशो महिमा यत्र स तथा तस्मिन् , अत्समासांतेन नवहस्तकायराजांकितसममहिमे, यद्वा नव हस्ताः प्रमाणं HORIGHOROROGGROGHOTOHOGHOTOS ॥३०३॥ For Personal and Prive Oy
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy