SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पाशविश्रामोपसंहारः भीप्रवचन परीक्षा ११ विश्रामे ॥३०४॥ OHORROROHOROHOROGDIOHONORON यस्यैवंविधो राजते इत्येवंशीलो राजा-शोभनः एवंविधः कायः-शरीरं यस्य सः प्राकृतत्वात् विशेषणस्य परनिपातः, तथा च नवहस्तकायराजेतिसंपन्नं तेनांकितः चिह्नीकृतोऽर्थात् श्रीपार्श्वनाथस्तस्य महिम्नः समो महिमा यत्र स तथा तस्मिन् , श्रीपार्श्वनाथराजसदृशमहिम्नि श्रीहीरविजयसूरीश्वरराज्ये इत्यर्थः, अयं भावः-श्रीऋषभाद्यपेक्षया हीनकालसमुत्पन्नोऽपि श्रीपार्श्वनाथः सर्वजनेष्वादेयनामा यथाऽभूत न तथा ऋषभादयः,एवं श्रीवज्रखाम्याद्यपेक्षया श्रीवीरजन्मनक्षत्रसंक्रान्तभमराशिमाहात्म्यात् कुनृपकुपाक्षिकबाहुल्येन तथाविधकालोत्पन्नोऽपि श्रीहीरविजयमूरिर्यथा माहात्म्यभाग् न तथा वज्रस्वाम्यादयः, न चैतत् वर्णनमात्रं, किंतु पारमार्थिकमिति प्रदर्शनाय विशेषणद्वारा हेतुमाह, किंलक्षणे श्रीहीरविजयसुगुरुवारे?-'चित्रसितपक्षे चित्रं-आश्चर्य यथा स्यात् तथा कुपाक्षिकमुख्यानामवि निजकुपक्षपरित्यागपुरस्सरं सितः श्वेत: शुद्ध इतियावत् पक्षः अंगीकारो यत्र वारके स तथा तस्मिन् ,अयं भावःकुपाक्षिकमुख्यः सपरिकरः ऋषिमेघजीनामा लुंपकमतीयो नगरमुख्येऽहम्मदावादे सकलराजमुख्यमुद्गलाधिपतिपातशाहश्रीअकबरसाक्षिकं महामहःपुरस्सरं यथा प्रव्रज्यादिकं प्रतिपेदे न तथा प्राचीनाचार्यराज्येषु, यद्यपि कश्चित् कदाचित् प्रवज्यादिकं स्वीकुर्वाणो दृष्टः श्रुतश्च परं तन्मुख्यास्तु उक्तयुक्त्या श्रीहीरविजयसूरिराज्ये इति चित्रं, एवमपि कुत इति विशेषणद्वारा हेतुमाह, यतः किंलक्षणे श्रीपूज्यवारके ?-'गुरुदैवकपूर्णोदये' गुरु-महत् तच्च तदैवं च गुरुदैवकं, खार्थे का, तस्य पूर्णः-अन्यून उदयस्तीर्थकृन्नामकर्मोदयवत् पागजन्मोपार्जितशुभप्रवृत्तिविपाकानुभवनं यत्र स तथा तस्मिन् गुरुदैवकपूर्णोदये तत्र, न केवलं गुरोरेव पुण्यप्रकृत्युदयः, किंतु तद्भक्तानामपि, तथा हि-गुरुपक्षे तावत् नहि गुरूणां तथाविधपुण्यप्रकृतिविपाकानुदये कुपाक्षिककुनृपव्याकुलेऽपि काले श्रीस्तंभतीर्थे प्रभावनामुखेनैव कोटिसंख्यो द्रव्यव्ययः संभवति, तद्भक्तपक्षे तु तथाविधेऽपि काले तद्भक्तानां विधात्रा ज्ञानदर्शनचारित्राणि OGHOROHOROSORGROUGHORT in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy