________________
आवश्यकयोगादि
श्रीप्रवचन
परीक्षा ११.विश्रामे ॥३०॥
HOGIOUGHOUGHOSPHORO KOR
आणावि होइ दुविहा आएसुवएसपएहिं जिणसमए । मुणिधम्मे आएसो गिहीण जहसमयमुभयपि ॥६४॥
आज्ञाऽपि-जिनाज्ञाऽपि द्विधा भवति, काभ्यां ?-आदेशोपदेशपदाम्यां, क ?-जिनसमये-जिनसिद्धांते, क्वचिदादेशरूपा आज्ञा, त्वमित्थं कुर्वित्यादिरूपेण, क्वचिच्चोपदेशरूपा यथा सुश्रावको जिनेंद्रपूजां कुर्बाणः सुलभबोधिः स्यादित्यादि,अत एवाह-'मुणि| धम्मे'त्यादि, मुनिधम्में-साधुधर्मे आदेशः, सर्वेषामपि साधुधर्माणां निरारंभप्रवृत्तिरूपत्वात् , गृहिणां-श्रावकाणां धम्म यथा
समय-यथावसरमुभयमपि-आदेशोपदेशरूपं द्वयमपि, अत एव पौषधसामायिकक्रियायामादेशा दीयन्ते गुरुमिः, जिनप्रतिमापूजा| क्रियापदेशो, न पुनरादेशोऽपीति संप्रत्यपि साधूनां प्रतीतत्वात् , आदेशोपदेशौ तु यथा जिनानां तथा तच्छिष्यानां गणधराणां, तद्वदद्यतनसाधूनामपि युक्तौ, तत्संतानीयत्वात् , एवं चाज्ञादिस्वरूपे विचार्यमाणे सर्वमपि सुस्थमेवेति गाथार्थः ॥६४॥ अथापरामपि पाशप्ररूपणामाह
आवस्सयउवहाणं अट्ठदिणेहिंपि साहुजोगुब्व । वासनिसेहप्पमुहं मोहुदया भासए पासो ॥६॥
आवश्यकोपधानमष्टमिर्दिनैः साधुयोगवत् वासनिषेधप्रमुखं च भाषते, आदिशब्दात् जिनबिंबप्रतिष्ठादयो ग्राह्याः, नामतोऽपि कुपाक्षिकाणां प्रतिष्ठाव्यवस्थितिरेवं, दिगंबरखरतरयोनिजवेषधर एव प्रतिष्ठाता विधिना,पौर्णिमीयकांचलिकसार्धपौर्णिमीयकागमिककटुकानां तु गृहस्था एव प्रतिष्ठां कुर्वति, न पुनः स्वाभिमता अपि वेषधराः, लुपकस्य तु प्रतिमाया एवानंगीकारात् प्रतिष्ठावार्ताऽपि दुरापा, बीजापाशयोस्तु प्रतिमांगीकारेऽपि प्रतिष्ठा मूलतोऽपि नादृता, पाशेनाकृतिमात्रमेव पूज्यत्वेनाभिमतीकृता, एवं पाशस्य प्ररूपणा कुतो?-मोहोदयात्-मिथ्यात्वमोहनीयकम्र्मोदयात् , प्राग्जन्मनि कुतोऽपि कारणात् तीर्थकरादीनामाशातकोऽभूत् तत्पा
HOGIOHOROUGHOजानाजा
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org