________________
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥३००॥
Jain Educationa
OROISONG
त्रिविधवा
पिवेदिति नीरोग दृढशरीरस्य पुष्टिघृतयोः कार्यकारणभावो, न पुनरदृढशरीरस्य पुष्टिघृतयोः, कार्यकारणभावे वर्त्तमानाऽपि दृश्यते, यथा - 'पडंति नरए धोरे, जे नरा पावकारिणो । दिव्वं च गईं गच्छति, चरिता धम्ममारिअं || १|| "ति, तथाऽपि विधिमार्गे प्रायः दसम्यक्ता सप्तम्येव त्यादिविभक्तिर्भवति, किंच-नात्र केवलकार्यकारणवावः सूचितः, किंतु संप्रति लोक एतादृशो वर्त्तते इति ज्ञापितं तच्च वस्तुगत्या यथास्थितवाद एवेतिगाथार्थः ॥ ६२ ॥ अथ विधिवादे तात्पर्यं दर्शयित्वोपसंहारमाह
एवं fararesar कत्थवि आणा कर्हिचि पडिसेहो । कत्थवि उवेहवयणं एवं चरिआइवाए ||३३|| एवमुक्तोदाहरणप्रकारेण विधिवादेऽपि चकारोऽग्रे समुच्चयार्थः, 'कत्थवि'त्ति कुत्रापि आज्ञा सम्यजिनधर्मकृतौ, कापि प्रतिषेधो हिंसाद्याश्रवे, काप्युपेक्षावचनं नैकान्तेन प्रतिषेधो नैवाज्ञा घृतपानादौ, तथा च विधिवादोऽप्यनेकखरूप इति दर्शिते पाशचंद्रेण यदुक्तं विधिवादाज्ञयोरैक्यं तन्निरस्तं । अथातिदेशमाह - ' एवं 'मित्यादि, एवं चरितानुवादयथास्थितिवादयोरपि बोध्यं, अयं भावःक्वचिच्चरितानुवादोऽप्याज्ञारूपः, यथा द्रौपदीश्राविका विहितः पूजाविधिरन्येषामप्याज्ञारूपः, एवमन्यैरपि कर्त्तव्यमिति, कश्चिच्च निषेधरूपो यथा कोणिराजकृतः संग्रामविधिः सर्व्वेषामपि निषेधरूप एव, नान्यैरित्थं कर्त्तव्यमिति, उपेक्षानुरूपश्चरितानुवादो धनाख्यसार्थवाहेन चिलातीपुत्रव्यापादितपुत्रीमांसभक्षणमित्यादि, एवं यथास्थितवादोऽपि त्रिधा, शाश्वतचैत्यादिवर्णनं यथास्थितवादे सदपि तदनुकूलप्रवृच्या जिनाज्ञाऽऽराधिता भवतीतिकृत्वा यथास्थितवादोऽप्याज्ञारूप एव, नरकादिस्वरूपवर्णनं तदनुकूलप्रवृत्या जिनाज्ञा नास्तीति प्रतिषेधरूपो यथास्थितवादः, मेर्वादिवस्तूनां वर्णनं नाज्ञा नवा प्रतिषेधस्तदनुकूलमतिकूलचेष्टयोरसंभवादित्यादिकं विधिवाद इव चरितानुवादयथास्थितवादावपि संपन्नाविति गाथार्थः || ६३ ॥ अथाज्ञायाः खरूपमाह
HORONGHOSHOHOSHOHOKIGH
For Personal and Private Use Only
॥३००।
www.jainelibrary.org