________________
श्रीप्रवचन परीक्षा ११ विश्रामे
॥२९४॥
क्रियाहेतुरिति ज्ञात्वा येन प्रथममीर्या प्रतिक्रान्ता तेन श्रावकादिना तस्यामेव क्रियायां यथास्थाने तीर्थकुदुक्तस्थाने प्रतिक्रमितव्या, ईर्यापथिकीत्यत्रापि संबध्यते इति गाथार्थः || ४८ || अथ यस्याः क्रियाया हेतुत्वेनादावेव प्रतिक्रान्ता तस्यामेव क्रियायां पश्चादपि यथोक्तस्थाने प्रतिक्रमितव्येत्यत्र हेतुमाह
सच्चित्तफासमित्तं न करिस्सं जाव मे इमा किरिआ । इअ हि पइण्णावाए पुणोऽवि तस्संघणड्डाए ॥ ४९ ॥
यावत् - यावत्कालं मे ममेयं क्रिया तावत्सच्चित्तस्पर्शमात्रमपि न करिष्यामीत्यमुना प्रकारेण प्रतिज्ञा - अभिग्रह विशेषः श्रावकस्य परिमितकालावच्छिन्ना साधोश्च यावज्जीवमिति तस्याः अपाये-क्षये सच्चित्तादिस्पर्शादौ जाते पूर्वप्रतिज्ञाया हानौ सत्यां तत्संधानार्थे - प्रतिज्ञापूर्त्तिकरणार्थं पुनरपि ईयां प्रतिक्रामति, अन्यथा समग्रमपि कालमीर्याया एव प्रसत्तेः क्रियांतरस्य व्याघात एवाप घेतेति गाथार्थः ॥ ४९ ॥ अथ दृष्टान्तमाह
जह तंतूहिं कुविंदो कुणमाणो साडिअं पुणो तंतू । तुट्टिज्जते निउणं संघिज्जा जा पइण्णा से || २०|| यथेत्युदाहरणोपन्यासे, यथा तंतुभिः शाटिकाकारणैः शाटिकां कुर्व्वाणः कुविंदः - कोलि कस्त्रय्यतस्तंतून निपुणं यथा स्यात् तथा संघयेत् -संधानं कुर्यात्, कियत्कालं यावत् ? - ' से 'ति तस्य कोलिकस्य प्रतिज्ञा स्यात्, शाटिकासमाप्तिं यावदित्यर्थः । अयं भावःयथा कुविंदस्तंतुमिः शाटिकां कुर्व्वाणोऽन्तरा२त्रुटिततंतून् संधाय संधाय पूर्णांकरोति तथा ईर्यापूर्वकं सामायिकं कृत्वा सच्चित्तादिस्पर्शप्रतिषेधप्रतिज्ञया सामायिकादिकं पालयन् अंतरा तत्प्रतिज्ञाहानावीर्यापथिकया निजप्रतिज्ञाकारणानि संधाय २ सामायिकादिक्रियाप्रसाधको भवति, तथैव द्रव्यस्तवं कुर्व्वता न केनापीर्या प्रतिक्रान्ता, न वा सच्चित्तस्पर्शनिषेधप्रतिज्ञाऽपीति गाथार्थः ||५० ||
For Personal and Private Use Only
Jain Educationa International
द्रव्यस्
नेर्या
॥ २९४ ॥
www.jainelibrary.org.