________________
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२९३॥
GHORS O
द्रव्यस्वे
याति, न पुनः पूजापर्यवसानं यावतिष्ठति, नागकेतुवत्पूजां कुर्व्वतामेव बहूनां केवलोत्पत्तेः श्रवणात्, अन्यथा तदसंभवात्, तथा च तत्रेर्या हि अजागलस्तन कल्पेति, ननु तर्हि कूपोदाहरणासंगतिः स्यात्, कूपे तु खाते सत्येव तज्जलेन तृषाद्युपशान्तिरिति चेत् मैवं, नेर्या सर्वेषामपि वस्तूनां देशेनैवोदाहार्यात्, नहि महानसदृष्टान्तेन पर्व्वते साध्यमानो वह्निः स्त्रीभांडादिपाकसामग्रीमादायैव सिध्यति, किंतु वह्निमात्रसिद्धिः, तद्वदत्रापि, दृष्टान्तयोजना चैवं यथावत् - कूपजलेन पूर्वोत्पन्नट्षया सहैव सद्यः समुत्पन्नाऽपि तृषोपशाम्यति, शरीरादिपावित्र्यं च तथा पूजां कुर्व्वत एव पूर्वोपार्जिताशुभकर्म्मभिः सहैव कुसुमादिजन्य किंचिद्विराधनाजन्यं मालिन्यमपैति देवलोकगमनयोग्य शुभकम्मोपार्जनमपीति कुतः पाशकल्पना ज्यायसी १, तस्मात् दृष्टांतासंगत्युद्भावनं स्वगलपादुकाकल्पं पाशस्यैव संपन्नमिति गाथार्थः || ४६ || अथ द्रव्यस्तवे तावदीर्यापथिकाया गन्धोऽपि न संभवतीति दर्शनायेर्यापथिक्याः स्थानकमाह -
आवहआठाणं सावयकिरिआवि साहुसमकिरिआ । तत्तो भिन्नसरूवो इरिआठाणं न दव्वधओ ॥ ४७॥ ईर्यापथिकायाः स्थानं श्रावकक्रियाऽपि साधुसमक्रिया भवति-साधुसदृशी क्रिया हि सामायिकादिरूपा भवति, यदागमः"सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइअं कुञ्ज || १ || "त्ति श्री आवश्यक निर्युक्तौ, तत्रेर्यापथिका संभवति, ततो भिन्नस्वरूपो द्रव्यस्तवो नेर्यास्थानं - ईर्यापथिकायाः स्थानं न स्यादेवेति गाथार्थः ॥४७॥ अथ विशेपत ईर्यायाः स्थानकमाह
Jain Education Intentional
जीह किरिआइ उत्ति जाणिउं जेण इरिअ पडिकंता । तेणं तीइ पच्छा पडिक्कमिअत्र्वा य जहठाणे ||४८|| यस्वाः क्रियाया ईर्या हेतुरिति ज्ञात्वा येन श्रावकेण साधुना वा ईर्या प्रतिक्रांता यां क्रियां सामायिकादिरूपां चिकीर्षता
150%5%0%G>OZOKOKORONG«O»5«O?C?
For Personal and Private Use Only
॥२९३॥
www.jainelibrary.org