SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२९२॥ त्वेनोक्ताऽपि निद्रा प्रमादो न भवति तीर्थकदाज्ञावर्तिनामिति गाथार्थः॥४३॥ अथ गाथात्रयेण पाशमते मृलोपदेशं पयितुं निद्राया। प्रथमगाथया तदभिप्रायमाह प्रमादा प्रमादते जं पूआइऽवसाणे आरंभालोअणं पुढो भणिअं। कूवाहरणासंगइमुम्भाविअ भंतचित्तेणं ॥४४॥ |तं ता हविज सम्म खाए कृमि अवरकूवजलं । तिण्हाइनासहेऊ वुत्तं जइ हुन जिणसमए ॥४५॥ तन्नो कत्थवि भणिअंभणि पुण खणिअकृवसलिलेणं । सुहभागी सव्वजणो अप्पा अण्णोऽवि बहुजीवी॥४६॥ यद्यारंभः पृथग् नालोच्यते तर्हि द्रव्यस्तवे कूपोदाहरणस्य संगतिनं भवेदित्येवं भ्रांतचित्तेन पाशेन मूर्खजनेभ्यः कूपोदाहरणासंगतिमुद्भाव्य पूजाद्यवसाने आरंभालोचनं पृथक् भणितमिति पाशाशय इति गाथार्थः॥४४॥ अथ पाशोक्तं यथालिंगितानिष्टापादनतर्केण दूषयितुं गाथामाह-तत् पाशोक्तं 'ता' तर्हि सम्यग् भवेत् यदि खाते कूपेऽपरकूपजलं तृष्णाविनाशहेतुतया | जिनसमये भणितं भवेत् , तत् खनिकर्मकर्तुः पुंस इति अर्थात् बोध्यं, अयं भावः-स्वयं खातकूपजलेन निजतृष्णाद्युपशांतिर्न | स्यात् ,किंत्वपरकूपजलेनैवेति यद्युक्तं स्यात् तर्हि पूजाद्यवसाने पाशकल्पितेर्यापथिकी सम्यग् स्यादिति व्याख्ययाऽनिष्टाऽपादनं कृतमिति | गाथार्थः ॥४५॥ अथ व्यतिरेकेण निगमनमाह-खनिकर्तुरपरकूपजलेन तृषाधुपशान्तिर्नान्येन जलेनेत्यादि क्वापि शाखे न भणितं, प्रत्यक्षेण दृष्टे वस्तुनि शास्त्रस्याप्यप्रवृत्तेः, प्रत्यक्षप्रमाणस्य बलवत्वात् , भणितं पुनः खातकूपसलिलेनात्मा-खनिकर्ताऽन्योऽपि-तद्व्यतिरिक्तोऽपि बहुजीवी-दीर्घायुः सर्वजनसुखभागीति, अयं भावः-पूजाकर्तुः कथंचित् कुसुमादिविराधना द्रव्यतो भवति तज्ज-15 ॥२९२॥ न्यं कर्माप्यल्पस्थितिकमल्पं च स्यात् , परं तादृशं कर्म पूजां कुर्वत एव तद्ध्यानजलेन प्राचीनाशुभकर्मसंतत्या सममेव विलयं SHORONGROUGHODKOSHONGKONGRE Jan Education International For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy