________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२९१॥
प्रविशति, क्षोभयति वा पृथिवीं, विमेति वा, 'उदीरइ'त्ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेषक्रिया मेदसंग्रहार्थमाह- 'तं तं भावं परिणमति'त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणामं यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः तदेजनं मंतव्यं नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदसंभवादिति, 'तस्स जीवस्स अंते'त्ति मरणांते 'अंत किरिअ'त्ति सकलकर्मक्षयरूपा, 'आरंभ'त्ति पृथिव्यादीनुपद्रवति 'सारंभ 'ति संरभते तेषु विनाशसंकल्पं करोति 'समारभई 'त्ति समारभते - तानेव परितापयति 'संकपो संरंभो परितापकरो भवे समारंभो । आरंभो उद्दवओ सुनयाणं विसुद्धाणं || १ ||" इदं च क्रियाक्रियावतोः कथंचिदभेदः इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तं, अथ तयोः कथंचिदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह- 'आरंभ' त्यादि, आरंभे अधिकरणभूते वर्त्तते जीवः, एवं संरंभे समारंभे च, अनंतरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह - आरभमाणे संरंभमाणे समारंभमाणे जीव' इत्यनेन प्रथमो वाक्यार्थोऽनुदितः, आरंभे वर्त्तमान इत्यादिना तु द्वितीयः, दुकूखावणयाए इत्यादौ ताशब्दस्य प्राकृतत्वात् दुःखापनायां - मरणलक्षणदुःखप्रापणायां अथवेष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तते इति योगः, तथा शोकापनायां - दैन्यप्रापणायां, वर्त्तते इति योगः, 'जूरावणाए 'ति | शोकातिरेकात् शरीरजीर्णताप्रापणायां, परितापनायां शरीरसंतापे वर्त्तते, क्वचित् पठ्यते 'दुक्खणयाए' इत्यादि, तच्च व्यक्तमेव, यश्च तत्र 'किलामणयाए उद्दावणाए' इत्यधिकमधीयते तत्र किलामणयाएत्ति ग्लानिं नयते, उद्दावणाएत्ति उत्रासते इति भग० श० ३ उ० ३, अत्रारंभे प्रवृत्तिरप्यारंभक्रियायां देशविरतौ प्रत्याख्याता, अप्रवृत्तिरप्यप्रत्याख्यानक्रियायामममाणतया दर्शिता, मिथ्यादृशामारंभपरिग्रहादौ प्रवृत्तिरप्रवृत्तिर्वाऽविरतिं प्रतीत्याविशेषेण कर्म्मबंधन हेतुत्वात् प्रमाणमेव द्वे अपीति सम्यगुधिया विचार्य प्रमाद
Jain Educationa international
For Personal and Private Use Only
GHOSHO%
DHOHOGHOSHON
निद्रायाः प्रमादाममादते
॥२९२॥
www.jainelibrary.org