SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२८२॥ CHOIGNOSISIIGIOI/GO " बलवान् भवति, तेनैव कारणेन प्रवचने स्याद्वादोऽपि युक्तिक्षम एव, न झेकान्तेनोत्सर्गापवादाभ्यामेव प्रवृत्ति, किन्तु क्वाप्युत्सर्गेणैवेति, कालपरिहान्या विवादादौ च जाते सति नियमात् राजानमंतरेण न प्रजानां निर्वाहः, आस्तामन्यत्, धर्म्मप्रवृत्तिरपि राजनिश्रयैव भणिता, यदागमः - " धम्मं चरमाणस्स पंच निस्साठाणा पं० तं०- छकाया ? गणो २ राया ३ गाहावती ४ सरीरं ५ चेत्यादि, अत एवोत्सर्गापवादौ बहुश्रुतगम्यौ, नागीतार्थगम्यौ, यदागमः - "दव्वं खित्तं कालं भावं पुरिस पडिसेवणाओ अ । नवि जाणे अगीओ उस्सग्गववाइअं चैव || १ ||" श्रीउपदेशमालायां, व्याख्यानं यथा-द्रव्यं क्षेत्रं कालं भावं पुरुषं प्रतिसेवनाश्च नापि नैव जानात्यगीतार्थः, औत्सर्गिकापवादिकवादस्थानमिति गम्यते, तत्रोत्सर्गेण निर्वृत्तमौत्सग्गिकं - यन्निर्विशेषणं क्रियते, अपवादेन निर्वृत्तं आपवादिकं यद् द्रव्यक्षेत्राद्यपेक्षमिति, एवकारात् तद्गुणदोषांश्चागीतार्थो न जानाति, अतो ज्ञानाभावात् वैपरीत्येन प्रवर्त्तते, तथा च कर्म्मबन्धः, ततोऽनंतः संसार इति द्वारगाथासमासार्थः, एवमुत्सर्गापवादयोर्व्यवस्थापने बह्वयो युक्तयोनया दिशाऽभ्युपगन्तव्याः, येन कारणेनोत्सर्गपालकोऽपवादस्तेन कारणेन यथासंभवं प्रतिव्रतं प्रतिप्रत्याख्यानं च यावंत आगमे भणितास्तेषामनतिक्रमेण यथासंभवं आगारा - अनाभोगादयो भणिताः, आस्तां महति कृत्ये, ईर्याप्रतिक्रांतावपि कायोत्सर्गस्योच्छ्वासनिःश्वासादयो भणिता इति गाथार्थः ||३०|| अथोत्सर्गापवादविषये दृष्टान्तान्तरमाह जह पहिओ वचतो खिन्नो ग्वण वीसमित्तु वचिज्जा । एवमववायसेवी खणेणमुस्सग्गमग्गरओ ॥३१॥ यथा पथिको व्रजन् खिन्नः - खेदमापन्नः, श्रांत इत्यर्थः, क्षणं-मुहूर्त्तमात्रं विश्रम्य विश्रामं कृत्वा व्रजेत्, अपगतपथश्रमः पुनः सुखेन गन्तुं शक्नोतीत्यर्थः, एवमपवादसेवी धर्मानुष्ठाने प्रवर्त्तमानो ग्लानिमापन्नः क्षणेन - क्षणमात्रेणोत्सर्गमार्गरतो भवति, उत्सर्ग For Personal and Private Use Only Jain Education International KOHONGKONGOONGSINGHGIO उत्सर्गा पवादव्यवस्या ॥२८२ ॥ www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy