SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ PORCKORO आचारस्योपदेश विशेषाज्जातो भवति, यथा परस्परं विवदमानैर्युगलिकै राजनिमिचं श्रीनाभिकुलकरो याचितो, नामिना च भवतां ऋषभदेवो राजा भीप्रवचन- विवादादिनिवारणेन न्यायप्रवर्तको भविष्यतीति कारणवशात् राजा जातः,अत एव 'पढमराए'त्ति सिद्धान्तवचनं, न पुनरेवं पढम परीक्षा पयत्ति वेत्यादि दृष्टं श्रुतं वा, तस्मात् कारणिको राजा,स च कीदृशः स्यादित्याह-प्रकृतिधनोपजीवकः-प्रकृतेः सकाशात् यद् धनं ११ विभामे तदुपजीवी, तेनैव स्वनिर्वाहक इत्यर्थः, केन ?-न्यायेन-न्यायमार्गेण, लभ्यभागोपादानयथाऽपराधदंडादिनेत्यर्थः, अथ प्रकृतिधनो१२७९॥ पजीवनेन न्यायभाग् कथमित्याह-'तीइति तस्याः-प्रकृते रक्षणार्थ,प्रजापालनार्थमेव प्रजाधनोपजीवी न्यायवानेव, यथा भारमुद्वहन् वृषभस्तृणादिकं चरति, यदागमः-"जो वहइ सो तणं चरईत्ति निशीथचूर्णी, यस्तु अन्यायधनोपजीवी स तु राजा न भण्यते, किन्तु नृपो लुटाको भण्यते इति गाथार्थः ।।२९॥ अथ दार्टान्तिकमाह एवं खलु अववाओ उस्सग्गुवजीवओऽवि णाएणं । उस्सग्गं पालिज्जा तेणं जहसंभवागारा ॥३०॥ एवं खलु:-निश्चये अपवाद उत्सर्गोपजीवकोऽपि न्यायेनोत्सर्गपालयेत् ,ननु राजा तावत् प्रजाधनोपजीवको भवति,तदध्यक्ष| सिद्धमेव, परमपवादः कथमुत्सर्गधनोपजीवक इति चेत् शृणुत, यथा समुत्पन्नेऽपि रोगादौ साधुनोत्सर्गतो भैषजादिचिकित्सा न कार्या, यदागम:-"तेगिच्छं नामिनंदिज्जा, संविक्खत्तगवेसए। एअंखु तस्स सामण्णं, जं न कुजा न कारवे ॥१॥" इति श्रीउत्तराध्ययने २, तथा 'मोत्तूण जइ तिगिच्छं अहिआसेऊण जइ तरह सम्मं । अहिआसिंतस्स पुणो जह से जोगा न हाइति ॥२॥"त्ति श्रीउपदेशमालायां, अत्र पूर्वार्दुनोत्सर्गः प्रतिपादितः, एवं च सति कोऽपि साधुरसमर्थश्चिकित्सादिकं विना ज्ञानादिहानिजमवाप्नोति तदाऽपवादे चिकित्सादिकं कल्प्यं,तच्च उस्सग्गत्ति गाथोत्तरार्द्धनोक्तं, यथा 'सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खेज्जा। HONOHOUGHORORIGHONGKON HOUGHOUGHODOGGHORNO ॥२७॥ In coin For Personal and Private Use Only
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy