________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२७८॥
बलवच्वे हेतुमाह - 'उस्सग्ग'ति यतः सोऽपवादो नृपवदुत्सर्गपालनार्थं जिनैर्भणितः, यथा प्रजापालनार्थं प्रजयाऽभिषेच्यावस्थापितो | राजा प्रजाभ्योऽपि बलवान् भवेत् तथाऽपवादोऽप्युत्सर्गेणैव व्यवस्थापितः उत्सर्गादपि बलवान्, तत्कथमिति चेत् शृणु, उत्सर्गो ब्रूते - ननु भो अपवाद ! अस्सच्छिष्यादिकं त्वदायत्तमेवेति वदाज्ञयैव वयं वर्त्तिष्यामहे, अपवाद मंतरेणोत्सर्गः स्थातुं न शक्नोतीति भाव इति गाथार्थः ||२७|| अथोत्सर्गापवादयोर्बलस्थानकमाह
उस्सग्गो खलु पगई अववाओ पुह (भू) बइत्ति सठ्ठाणे । परठाणे असमत्था दोऽवि अ ते गरहणिज्जावि ॥ २८॥ उत्सर्गः खलुरवधारणे प्रकृतिः - प्रजालोक इत्यर्थः, अपवादः पृथिवीपतिः- राजेति, क्व १ - 'स्वस्थाने' उत्सर्गस्थाने - अपवादानवकाशे 'अभावोपाधिको ह्युत्सर्ग' इति वचनात् यावदपवादप्रयोजनं न पतति तावदुत्सर्ग एव बलवान्, अपवादस्थाने चापवादः, अपवादस्थानं कारणं, उत्सर्गनिर्वाहकद्रव्याद्ययोगः, उत्सर्ग सामर्थ्य निरोधक द्रव्यादिसामग्रीत्यर्थः, तन्निराकरणार्थमपवादो राजस्थानीयः, यथा राजा प्रजापीडाकारिचौरादिजन निवारकस्तथा तथाविधद्रव्यादिसामग्र्या निवारकोऽपवादः, एतौ द्वावपि परस्थानेअपवादस्थाने उत्सर्गः उत्सर्गस्थाने चापवाद इति स्थानकव्यत्यये असमर्थों-न सामर्थ्यभाजौ भवतः, अपि- पुनर्गर्हणीयौ - जुगुप्सनीयौ अहो मर्यादारहितौ द्वावपि प्रवर्त्तेते द्वयोरप्याश्रय इत्यर्थ इति गाथार्थः ||२८|| अथ कीदृशी प्रकृतिः कीदृशश्च राजेति उत्सर्गापवादयोर्दृष्टान्तीकर्तुं दर्शयति
Jain Education international
पगई सहावसिद्धा कारणिओ होइ भूवई निअमा । पगईधणउवजीवो णाएणं तीइ रक्खठ्ठा ॥ २९५ ॥ प्रकृतिः स्वभावसिद्धा भवति, न पुनः केनापि स्थापिता, भूपती - राजा तुरध्याहार्यो, भूपतिस्तु नियमात् कारणिकः-कारण
For Personal and Private Use Only
QIGONG ORTIGONGONGĻO%
आचार
स्योपदेशः
॥२७८॥
www.jainelibrary.org