SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२७८॥ बलवच्वे हेतुमाह - 'उस्सग्ग'ति यतः सोऽपवादो नृपवदुत्सर्गपालनार्थं जिनैर्भणितः, यथा प्रजापालनार्थं प्रजयाऽभिषेच्यावस्थापितो | राजा प्रजाभ्योऽपि बलवान् भवेत् तथाऽपवादोऽप्युत्सर्गेणैव व्यवस्थापितः उत्सर्गादपि बलवान्, तत्कथमिति चेत् शृणु, उत्सर्गो ब्रूते - ननु भो अपवाद ! अस्सच्छिष्यादिकं त्वदायत्तमेवेति वदाज्ञयैव वयं वर्त्तिष्यामहे, अपवाद मंतरेणोत्सर्गः स्थातुं न शक्नोतीति भाव इति गाथार्थः ||२७|| अथोत्सर्गापवादयोर्बलस्थानकमाह उस्सग्गो खलु पगई अववाओ पुह (भू) बइत्ति सठ्ठाणे । परठाणे असमत्था दोऽवि अ ते गरहणिज्जावि ॥ २८॥ उत्सर्गः खलुरवधारणे प्रकृतिः - प्रजालोक इत्यर्थः, अपवादः पृथिवीपतिः- राजेति, क्व १ - 'स्वस्थाने' उत्सर्गस्थाने - अपवादानवकाशे 'अभावोपाधिको ह्युत्सर्ग' इति वचनात् यावदपवादप्रयोजनं न पतति तावदुत्सर्ग एव बलवान्, अपवादस्थाने चापवादः, अपवादस्थानं कारणं, उत्सर्गनिर्वाहकद्रव्याद्ययोगः, उत्सर्ग सामर्थ्य निरोधक द्रव्यादिसामग्रीत्यर्थः, तन्निराकरणार्थमपवादो राजस्थानीयः, यथा राजा प्रजापीडाकारिचौरादिजन निवारकस्तथा तथाविधद्रव्यादिसामग्र्या निवारकोऽपवादः, एतौ द्वावपि परस्थानेअपवादस्थाने उत्सर्गः उत्सर्गस्थाने चापवाद इति स्थानकव्यत्यये असमर्थों-न सामर्थ्यभाजौ भवतः, अपि- पुनर्गर्हणीयौ - जुगुप्सनीयौ अहो मर्यादारहितौ द्वावपि प्रवर्त्तेते द्वयोरप्याश्रय इत्यर्थ इति गाथार्थः ||२८|| अथ कीदृशी प्रकृतिः कीदृशश्च राजेति उत्सर्गापवादयोर्दृष्टान्तीकर्तुं दर्शयति Jain Education international पगई सहावसिद्धा कारणिओ होइ भूवई निअमा । पगईधणउवजीवो णाएणं तीइ रक्खठ्ठा ॥ २९५ ॥ प्रकृतिः स्वभावसिद्धा भवति, न पुनः केनापि स्थापिता, भूपती - राजा तुरध्याहार्यो, भूपतिस्तु नियमात् कारणिकः-कारण For Personal and Private Use Only QIGONG ORTIGONGONGĻO% आचार स्योपदेशः ॥२७८॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy