SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आचारस्योपदेश मीप्रवचन-2 | उस्सग्गा तावइआ चेव हुंति अववाया। जावइआ अववाया उस्सग्मा तचिया चेव ॥"त्ति व्यवहारभाष्ये, जिनकल्पस्तु परीक्षा केवलोत्सर्गरूप एव, तत्र द्वितीयपदाभावात् , तथा श्रावकमार्गस्तावच्चारित्रभारं वोढुमशक्तस्य संभवति, 'कारणिकोऽपवाद'इति १२विश्रामे वचनात् , तथाविधशक्त्यभाव एव कारणं, तथाविधशक्त्यभावोऽपि चारित्रावरणीयक्षयोपशमाभावजन्य एव, तत्रापि इत्थमेव कर्त्त॥२७७॥ व्यमिति जिन भिहितं, किन्त्वास्तामन्यत्र, सम्यक्त्वप्रतिपत्तावपि 'नन्नत्थ रायाभियोगेण गणाभियोगेण बलाभियोगेण देवयाभि| योगेण गुरुनिग्गहेण वित्तिकंतारेणे'त्याकारा भणिताः, एवं व्रतेऽपि, यथा उत्सर्गेण सम्यक्त्वमूलानि द्वादश व्रतान्येवाभ्युपगन्तव्यानि श्रावकैरित्युक्तवान् , शक्यभावे यावदेकमपि व्रतं प्रतिपन्नो देशविरतिर्भण्यते, तदभावे वाऽविरतसम्यग्दृष्टिरेव श्रावकः स्थादित्यादि, एवं संविग्नपाक्षिकोऽपि गृहीतचारित्रस्तथाविधचारित्रावरणीयकम्र्मोदयाच्चारित्रं विमुच्य देशविरतिः श्रावको भवति, | एतच्च जिनाज्ञा,यदागमः-"जइ न तरसि धारेउं मूलगुणभरं सउत्तरगुणं च । मोत्तूण तिन्नि भूमि सुसावगत्तं वरतरागं ।।।। अरहंत चेइआणं सुसाहुपूआरओ दढायारो। सुस्सावगो वरतरं न साधुवेसेण चुअधम्मो ।।२।।" इति, एवमप्यशक्तो यदि गीतार्थस्तर्हि | संविग्नपाक्षिको भवति, तत्रापि शक्त्यनुसारेण पुनः प्रतिज्ञातानां मूलोत्तरगुणानां परिपालनं भवतीति,एवमुत्सर्गापवादयोरुत्सर्गतोऽप| वादतश्च स्थानानि दर्शितानीति गाथार्थः ।।२६।। अथ कालानुभावात् कुपाक्षिकसंसर्गबाहुल्यात् सम्यग् उत्सर्गापवादस्वरूपमजानानो भूयान् जनोऽपवादहेलनापर एवेति तचालनां पराकरणायापवादस्वरूपमाहकारणिओ अववाओ उस्सग्गाओऽवि होइ बलवंतो । उस्सग्गपालणट्ठा निवइव्व जिणेहिं सो भणिओ॥२७॥ कारणिकोऽपवादः उत्सर्गादपि बलवान् भवति, यदाहुः श्रीहेमाचार्यपादाः 'उत्सर्गादपवादो बलीयान्' इति न्यायसूत्रे, UOHOTOHOUGHOOMGHOSHO GOOHOROHORG | ॥२७॥ in Education For Personal and Private Use Only www.ncbryong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy