SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२६॥ त्यादिविधिपुरस्सरं परम्परायातसूरिभिदत्तो, न पुनः खयमुपात्तः, एवंविधो वेषो लुम्पकवेषधरस्य नास्त्यव, यतो रजोहरणोऽपि नाममात्रेण, न पुनः परम्परायातपट्टकनिबद्धफलिकानिषद्याद्वयपरिकलित इत्यादि, तच्च सर्वजनप्रतीतमितिगाथार्थः ॥१०॥ अथ वेषार्द्धं तस्य किं सूचकमस्तीत्याह सद्धं पुण तित्थाफासस्सवि होइ चिन्धमिह पयडं । जह निवणुगारकलिओ नडो व राया व रयपब्वे ॥ १.१ ॥ वेषार्द्धं पुनः प्रकटमिह—जगति चिह्न, कस्य ? - 'तीर्थास्पर्शस्य' तीर्थस्य - श्रीवीरतीर्थक्रुद्व्यवस्थापिताच्छिन्नसाध्वादिसमुदायलक्षणस्य न विद्यते स्पर्श :- साक्षात्परम्परया वा संबन्धो यस्य स तीर्थास्पर्शस्तस्य, यस्तु साक्षात्परम्परया वा तीर्थस्पर्शी स्यात् तस्यान्यत्मरूपणादिकमन्यथाऽस्तु परं वेषस्तु प्रायः पूर्णो भवति, यथा राकारक्तादीनां, यद्यपि कटिदवरकादिपरित्यागेन कथञ्चिद्भेदस्ती|र्थस्पर्शिनामपि दृश्यते तथापि बाह्यदृशां न तथा प्रतीतिविषयीभवतीति न दोषः, तत्र दृष्टान्तमाह-यथा 'नृपानुकारकलितः' वेषादिना राजचेष्टाकारी नटो-नृत्यकर्त्ता आत्मसम्बन्धिनो जनान् राज्योपयोगिप्रकृतियुवराजामात्यादिजनतया विकल्प्य कृत्वा च छत्रादिचिह्नानि ततः स्वयं राजानुकृतिं कुर्वाणोऽपि कथंचित्किचिदेवानुकृतिं करोति, न पुनः पूर्णा, स्वर्णादिसम्यगाभरणादिविभूषितनेपथ्याभावाद्राजकुलानुत्पन्नत्वाद्राज्यशोभाकृत्वाभावाच्च, न वा स राजापि भण्यते, उक्तहेतुत्रयादेव, तथा नटवत् कथंचि|त्किंचिन्मात्रसाधुवेषानुकृतिमानपि लुम्पकमते प्रथमवेषधरो भाणकाख्यो निजजनान् तीर्थोपयोगि साधुसाध्वीश्रावक श्राविकादितया विकल्प्य प्रवर्त्तमानो न साधुर्न वा साधुवेषधरः स्यात्, किंतु उक्तप्रकारेण यदि संपूर्णसाधुवेषी स्यात्तदा साधुवेषधरो भण्यते, सोऽपि | श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परायाततीर्थपूजालक्षणराज्यश्रीभोक्ता स्यात्तदा साधुरपि व्यवहारतो भण्यते, स च तीर्थान्तर्वर्येव स्यात्, Jain Education International For Personal and Private Use Only GHOSHONIONS ONGC SONGONG श्रुतदेवतादिस्तुतिसिद्धिः ॥२६॥ ww.jinelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy