________________
श्रुतदेवता
श्रीप्रवचन
परीक्षा ८ विधामे ॥२५॥
पणवीसं वासाइं लिंगीहिं विरहिअंपि वुडिगयं । तेतीसुत्तरपनरससएहिं वरिसेहिं वेसहरा ॥९॥
पञ्चविंशतीवर्षाणि यावल्लिंगिभिर्विरहितमपि-वेषधरैः शून्यमपि वृद्धिगतं-वृद्धि प्राप्तमित्यर्थः, स कोऽपि भसराशिग्रहावस्थावछिन्नः कालविशेषः परिणतो येन तत आरभ्य वर्षशतमध्ये बहूनि कुमतानि प्रादुर्भूतानि,यथा विक्रमतः सं० ११५९ वर्षे राकारतो निर्गतस्तत आरभ्य वर्षशतमध्ये त्रिस्तुतिकपर्यन्तानि बहूनि मतानि प्रवचनपीडाकारीणि समुत्पन्नानि, यदि लोकानुभावात् काल| विशेषपरिणतिर्नोच्यते तर्हि कथमेतादृशं नाम्नापि कुत्सितं गृहस्थलिङ्गधारिणो निर्नामकलुम्पाकपुरुषादपि प्रवृत्तं सत् सत्यपि वलवति तीर्थे वृद्धि याति, अवश्यभाविनो वस्तुनः स्थगितिर्बलवताऽपि कर्तुमशक्येतिभावः, अथ वेषधरोत्पत्तिकालमाह-'तेत्तीसुत्तरेत्यादि, त्रयस्त्रिंशदुत्तरपञ्चदशशतवर्षेः-१५३३ त्रयस्त्रिंशदधिकपञ्चदशशतैर्वर्षेः कचिच्च सं० १५३१ वर्षे वेषधराः लुम्पकोपदेशरुचिषु जनेषु | लिङ्गिनः प्रादुरासन्निति गाथार्थः ॥९॥ अथ वेषधरेष्वपि प्रथमो वेषधरः किनामा कथं कीदृग्वेषं परिहितवानित्याह
तेसुवि भाणगनामा पढमो मूढोवि तंमि वेसहरो । सयमेव गहिअवेसं वेसोऽविअ साहुवेसद्धं ॥१०॥
तेष्वपि-लुम्पकवेषधरेष्वपि भाणकनामा-शिवपुरीसमीपवर्त्यरघट्टपाटकवास्तव्यप्राग्वाटज्ञातीयो भाणउ इति लोकोक्त्या, भाण| काख्यो हि पत्तने खयमेव वेषं गृहीत्वा 'तमि' लुम्पकमते मूढोऽपि-मूर्योऽपि प्रथमो वेषधरोऽभूत् ,वेषोऽपि च नान्यतीर्थिको नापि | जैनतीर्थिकः, किंतु साधुवेपार्द्ध-जैनसाधोर्यो वेषस्तस्याद्धं, किंचिदपि कथंचित्साधुवेषानुकृतिमात्ररूप इत्यर्थः, तत्कथमितिचेच्छृणुकटिदवरकनिबद्धपरिहितचोलपट्टको रजोहरणमुखवस्त्रिकासमन्वितः प्रावृतकल्पकस्कन्धोपरिकृतौर्णिको गृहीतवामकरदण्डकः परम्परायातविधिविद्धोभयकर्णकश्च पुरुषः साधुवेषधारी भण्यते, तस्य यो वेषः स संपूर्णो वेषो भवति, सोऽपि 'मम वेसं समप्पेहे'
शनाGROHORIGONOROLOG
॥२२॥
For Pesand Private Use Only