SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ लुंपकमतोस्पतिः श्रीप्रवचन परीक्षा ८विश्रामे ॥२४॥ पडिमापूआदोसं भासह हिंसाइ मुहरमुहवयणो। जीवदया खलु धम्मो जिणभणिउत्ति मुहमंगलिओ॥७॥ हिंसया पृथिवीजलकुसुमादिजन्तुप्रभवया प्रतिमायाः पूजादोषं-पूजायां पापं भाषते, किंलक्षणः सन् ?-मुखरमुखवचनः सन् , | मुखरस्येव मुखे वचनं यस्य स मुखरमुखवचनः, पाषाणनिष्पन्नायां प्रतिमायां पूजया किं स्यात् , प्रतिमा हि चेतनारहिता किं पूजादिकं जानातीत्याहानार्यवचन इत्यर्थः, अथ केवलानार्यवचनेन जनो नाभिमुखीस्वादतस्तदभिमुखीकरणाय यद् ब्रूते तदाह-जीवेत्यादि, जिनभणितः-अर्हद्भाषितः खलु-निश्चितं जीवदया धर्मो भवति, यदागमः-"सव्वे पाणा सव्वे भूआ सब्वे जीवा सब्वे सत्तान हंतव्वा" इत्यादिप्रवचनवचनेनेति, मुखमांगलिकः-मुखेनैतावदेव मंगलं ब्रूते इति मुखमांगलिकः, पारमार्थिकविचारशून्योऽप्येतावमान्मात्रमेव मुग्धजनपाशकल्पं ब्रूते इति, प्रतिमायां मुखरीभवन्नपि जीवदया धर्मो जिनभाषित एतावन्मात्रेण मुग्धजनप्रतारक इत्यर्थः ॥७॥ अत तदानीं तस्य सहायकः कोऽप्यासीत् न वेत्याकाङ्क्षायामाह तस्सवि एगो मंती नामेण लखमसीति सम्मिलिओ। दोवि उवएसमित्ता कडुउब्व पव्वट्टिआ पावा ॥८॥ तस्यापि आस्तामन्यस्याकिञ्चित्करस्य लुम्पकलेखकस्याप्येको मन्त्री-राजमान्योऽमात्यो नाम्ना लषमसीति सम्मिलितः-सम्यग् मिलितः,अभ्यन्तरीभूतो मिलित इत्यर्थः,द्वावपि पापौ-पापात्मानौ उपदेशमात्रात्-केवलोपदेशदानादेव,न पुनः किञ्चिच्चारित्राभासानुष्ठानेनापि, प्रवर्तितो, किंवत् १-कटुकवत् , यथा कटुकनामा गृहस्थो वक्ष्यमाणलक्षणः स्वयं साधुदोषमुद्भावयन् मुग्धजनविप्रतारणे |प्रवृत्तस्तथाऽमृ अपि स्वयं साध्वादिवेषशून्यावपि साधुदोषं प्रतिमादोषं चोद्भावयन्तावेव प्रवृत्तावित्यर्थः इति गाथार्थः ॥ ८॥अथैवं कियत्कालं प्रवृत्तिरासीदित्याह POHOREOG HIGHOHOUGOOGO GHORSIO ॥२४॥ Jan Educationa international For Personal and Private Use Only www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy