SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ लुंपकमतोत्पतिः श्रीप्रवचन परीक्षा ८ विश्रामे ॥२३॥ MCHHORCHOITHIGNIOR 'कारणादुत्पन्न हि वस्तु निनिमित्तकमेवोच्यते, यथाऽयमकाले मृत इत्यत्र कालमन्तरेण मरणासंभवेऽपि अतर्कितकाले मृतो ह्यकालमृत एव भण्यते इतिगाथार्थः ॥३॥ अथ व्यतिकरं दर्शयित्वाऽन्वयमाह इह एगो नामेणं लुपगलिहगोऽवि गुज्जरत्ताए। लोहेणंतरपत्तं छड्डिअ सिद्धंतमा लिहई ॥४॥ इह-भरतक्षेत्रे नाम्ना लुम्पकलेखको गूर्जरत्रायां धरित्र्यां 'लोमेनान्तरपत्रम्' अन्तरेऽन्तरे-मध्यभागे मध्यभागे पत्रमुपलक्षणात् | पत्रे पत्राण्यालापकोद्देशादिकं च छर्दयित्वा-परित्यज्य र सिद्धान्तं लिखति, स्मेति गम्यं,लिखति स्म,आः खेदे, पापात्मा पापाभीरुरित्यर्थ इति गाथार्थः ॥४॥ अथैवं सति किं जातमित्याहमुणिवयणचोअणाए रुसिओ ऊससिअ भणइ दुव्वयणं । तुम्हं भिक्खुच्छेअं करेमि ता होमि जाओम्मि ॥५॥ मुनिवचनचोदनया-अहो पापात्मा कथं सिद्धान्तं न्यूनीकरोषीत्येवंरूपेण साधुप्रेरणयारुष्ट उच्चस्य-दुःखगर्भितमुच्वासं विमुच्य भणति-ब्रूते,किं?-दुर्वचनं-दुष्टवचनं,तदुल्लेखमाह-यदि युष्माकं मिक्षोच्छेदः-मिक्षादौर्लभ्यं करोमि 'ता' त'म्मिति अहं जातोभवामि, अन्यथा मम जन्म निष्फलमित्यभिप्राय इति गाथार्थः ॥५॥ अथ ततोऽपि किं कृतवानित्याह इअकयपइण्णचिंतापरेण पावेण तेण पयडिकयं । कुमयं निअनामेणं पावाणं पावकम्मुदया॥६॥ इति-प्रागुक्तप्रकारेण कृता या प्रतिज्ञा सेति कृतप्रतिज्ञा तस्याश्चिन्ता-चिन्तनमहोरात्र तदभिप्रायप्रवत्तन तत्र परस्तत्परस्तेन | पापेन-पापात्मना तेन लेखकेन निजनाम्ना-लुम्पाक इति जनोच्या कुमतं प्रकटीकृतं, एतादृशं कुतो जातमित्याह-'पावाणं'ति पापानांपापभाजामनन्तसंसारिणां प्राणिनां पापकर्मोदयादनन्तसंसारहेतुबीजभूताशुभकर्मोदयादितिगाथार्थः॥६॥ अथ तस्योपदेशमूलमाह HOOOOOOOGHOROID ॥२३॥ Jan Education Internation For Personal and Private Use Only www.neborg
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy