SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८. विश्रामे ॥२२॥ HO.CONCHING DISAGHOISION था तु सर्वाण्यपि कुमतानि प्रतिमाद्वेषीण्येव सन्ति, तीर्थद्वेषेण तीर्थसम्बन्धिषु सर्वेष्वपि वस्तुषु द्वेषस्यैव भावात्, परमेतत् केषांचित्सशामेव ज्ञानगोचरीभवति, नान्येषां सर्वेषामपीति, लुम्पाकस्तु मिथ्यादृशामपि जिनप्रतिमाद्वेषीति प्रतीतिविषय एवेति प्रतिमाप्रतिपक्षमिति भणितम्, उपदेशवेषं- उपदेशो जिनप्रतिमापूजा तावद्धिंसात्मिकेत्यादिरूपेण भाषणं वेपञ्च - नेपथ्यः कथंचित्साधुवेषार्द्धरूपस्ततः समाहारे उपदेशवेषं तदधिकृत्य- तदाश्रित्य यथा जातं तथा वक्ष्ये, कीदृशं तत् कुमतं १ - तुच्छानामपि, आसतां चर्मकारतैलादयो म्लेच्छानामपि जुगुप्सनीयं- कुत्साविषयं तेऽपि तन्मतं कुत्सितकुलेषु कुत्सिताहारपानीयादिग्रहणदर्शनात् जुगुप्सन्ति विसन्ति चेति जुगुप्सनीयमितिगाथार्थः || १ || अथोपदेशकालाद्याह विक्कमओ अडत्तरपन्नरससएहि पावउवएसो । लुंपगलिहगो मूलं तस्सवि तस्सेवमुप्पत्ती ॥ २ ॥ विक्रमतः-श्रीविक्रमसंवत्सरादष्टोत्तरपञ्चदशशतैः- अष्टाधिकपञ्चदशशतसंवत्सरैर्गतैः १५०८ पापोपदेशः - प्रतिमापूजादिनिषेधरूपस्तस्यापि - उपदेशस्यापि मूलम् - आदिकारणं लुम्पकलेखक:- लुम्पक इति मातापितृदत्तं नाम लेखक इति लिखनकर्मणा जीविका| कर्त्तेति दर्शितं, तस्य लुम्पकलेखकस्योत्पत्तिरेवं वक्ष्यमाणप्रकारेणेतिगाथार्थः ॥२॥ अथोत्पत्तिं दिदर्शयिषुः प्रथमं व्यतिकरमाहनय तित्थाउ अणंतरपरंपरानिग्गयंपि कुमयमिणं । किंतु अकम्हा मिच्छादिट्ठिसगासा सयंभूअं ॥३॥ न च तीर्थाद्-अच्छिन्नपरम्परागतसाध्वादिसमुदायादनन्तरपरम्परानिर्गतमिदं कुमतम् अव्यवधानव्यवधानाभ्यां निर्गतं - पृथग्भूतं, अपि विस्मये, इदं लुम्पकमतं भवति, नहि लुम्पककुमतं तीर्थादनन्तरं साक्षाद्राकारक्तवन्निर्गतं, न वा स्तनिकादिवत्परम्परानिर्गतं, किंतु अकस्माद्-असंभावित कारणाद् मिथ्यादृष्टिसकाशात् स्वयंभूतं स्वयमेव समुत्पन्नं, यद्यपि निर्निमित्तकं किमपि न स्यात्, तथाप्यसंभावित - Jain Educationa International For Personal and Private Use Only 40%GO!!!000OR लुंपकमतो त्यत्तिः ॥२२॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy