SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ||२६८|| भावः धम्मे चेवेति श्रीस्थानाङ्गे (७२), एतद्वृत्तिर्यथा - 'दुविहे त्यादि, दुर्गतौ प्रपततो जीवान् सुगतौ च तान् धारयतीति धर्मः, धर्मस्य श्रुतं - द्वादशांगं तदेव धर्मः श्रुतधर्मः चर्यते - आसेव्यते तत् तेन वा चर्यते - गम्यते मोक्ष इति चरित्रं - मूलोत्तरगुणकलापः तदेव सावद्यत्वाधर्मश्वरित्रधर्मः । 'सुयधम्मे' त्यादि, सूच्यंते सूत्र्यंते वा अनेनेति सूत्रं सुस्थितत्वेन व्यापित्वेन च सुष्ठुक्तत्वाद् वा सूक्तं सुप्तमिव वा सुप्तमव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं- "सिंचइ खरइ जमत्थं तम्हा० सुत्तपिव सुठिअवावित्तओ सुबुत्तंति” | अर्यते-अधिगम्यते अर्ध्यते - वाच्यते बुभुत्सुमिरित्यर्थः - व्याख्यानमिति, आह च - "जो सुत्तामिप्पाओ सो अत्थो अञ्जए य जम्हति । " 'चरित्ते' त्यादि, अगारं गृहं तद्योगादगाराः - गृहिणस्तेषां यश्चारित्रधर्मः सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरं अगारं नास्ति येषां तेऽनगाराः - साधव इति । अत्र साधुधर्मवत् श्रावकधर्मोऽप्यविशेषेणैव भणितः, तेन यदि यतिधर्मे जिनाज्ञा तर्हि गृहिधर्मेऽपि, तस्यापि प्रतिपत्तेः गौतमादेरिवानन्द श्रावकादेरपि श्रीमहावीरसमीप एव सद्भावात्, अथ गृहिधर्मे यदि नाज्ञा तर्हि | साधुधर्मेऽपि समानं, इष्टापत्तौ चाज्ञारहितो धर्मो न फलवान्, यदुक्तम् - "आणाइ तवो आणाइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो पलालपूलुव्व परिहाइ ॥१॥"चि, तथा 'आणानिदेसकरे गुरूणमुववायकारए। इंगियागारसंपन्ने, से विणीएत्ति बुच्च ||१|| इतिश्रीउत्त०, विशिष्टकष्टस्य कर्मक्षयं प्रत्यकारणत्वात्, किंतु जिनाझाया एव कर्मक्षय प्रति कारणत्वात्, किंच- यदि धर्मकृत्येऽपि जिनाज्ञा न स्यात् तर्हि पापकृत्ये वक्तव्या १, अत्यर्थं स्वरूपेणैव तस्या असंभवः स्यात्, तद्विषयाभावात्, न चेष्टापत्तिः, अग्रे तस्यास्तद्विषयाणां च दर्शयिष्यमाणत्वादिति गाथार्थः ||२१|| अथ धर्ममात्रे जिनाज्ञैवेति व्यवस्थापनाय प्रथमं धर्मस्वरूप - |मुत्वा विवेचयमाह *G«ORG«ONGOZO%F«OIGOGGIO For Personal and Private Use Only ॥२६८|| www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy