________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२६५॥
Jain Educationa
DIGHOROID
वीरेण प्रतिषिद्धमितिगाथार्थः || १४ || यस्मादेवं तस्मात् किमित्याह - ' ता०' तस्मात् सुनीनां निद्राकरणोपदेशो वीरस्य कथं भवेत् १, न कथमपीत्यर्थः, येन कारणेन विधिवादे निद्राकरणमसंगतं अतो मुनिना निद्रा चरितानुवादात् कर्त्तव्या, अमुकेन साधुनेत्थं निद्रा कृतेति कस्यचित् साधोवरितस्वरूपमवगम्य तेन विधिना साधुनाऽपि विधेयेति गाथार्थः || १५ || अथ पाशोपदेशस्योपसंहारमाह - ' एवं ० ' एवं प्रागुक्तप्रकारेण अज्ञानान्धः कुत्सितविकल्पविडम्बितो नेहलोकेऽपि समाधिभागभूत्, यतो नवीनसमुदायकरणेच्छया यत्र कुत्रापि परिभ्रमणं कुर्वाणचर्चादावुदीरितोऽवहीलनास्पदमेवाभूत्, महापापो - महापापात्मा परलोकापा यदर्शी नासीत्नरकाद्यनन्तदुःखभाजनमहं भविष्यामीति परलोकोपद्रवाद तदृष्टिः अधुनाऽपि संप्रतिकालेऽपीति, अनेन संप्रतिकालवर्त्तिनामस्माकं प्रत्यक्ष एवासीत्, न पुनरपरकृपाक्षिकवत् एतत्प्रकरणकर्तुर्ममाप्रत्यक्ष इति पाशोपदेशो दर्शितः इति गाथार्थः || १६ || इति पाशोपदेशो दर्शितः, अथ पाशोपदेशं तिरस्कर्तुमुपक्रम्यते
जं पासेण य भणियं वायतिगविभागकरणओ सव्वं । तं चैवाकिंचिकरं इमाहिं जुत्तीहिं विष्णेयं ॥ १७ ॥ यत् पाशेन - पाशचन्द्रेण भणित वादत्रिकविभागकरणतः - विधिवादचरितानुवाद यथास्थितवादविभजनेन सर्व-अखिलं तं चैव तदेव अकिंचित्करं - सर्वथाऽप्यसारं आमिर्वक्ष्यमाणाभिर्युक्तिभिर्विज्ञेयमिति गाथार्थः ||१७|| अथ चरितानुवादखरूपमाहचरियाणुवायकिचं सव्वं सममेव णेव जिण भणियं । धम्माधम्मविभत्तं निरवज्जावज्जवयणपयं ॥ १८ ॥ चरितानुवादकृत्यं सर्व जिनभणितं सममेव-समानमेव नैव भवत्येव, अयं भावः - पाशेन भणितं विधिवादे जिनाज्ञा, न पुनवरितानुवादे, तत् पाशोचं सम्यक् तदा स्याद् यदि चरितानुवादकत्यं सर्वमपि समानं भवेत्, तच्च नास्ति, कीडगस्तीत्याह
For Personal and Private Use Only
THONGONGO%80%¢
चरितानुवादस्वरुर्ष
॥२६५॥
www.jainelibrary.org