SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२६९॥ Jain Educationa OHORONGHOIGHONG पन्नत्ता, तं० - काया गणे राया गाहावती सरीरं" इतिश्रीस्थानांगपंचमस्थानके उ० ३, तद्वत्येकदेशो यथा - गणो- गच्छः तस्य | चोपग्राहिता 'इक्कस्स कओ धम्मो०' इत्यादिगाथापूगादवसेया, तथा 'गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ १ ॥ अन्नोन्नावेकखाए जोगंमि तहिं तहिं पयट्टंतो। णियमेण गच्छवासी असंगपयसाहगो होइ ||२||' इति स्था० वृत्तौ, तथा 'पंचहिं ठाणेहिं कप्पति णिग्गंथाण वा निग्गंथीण वा गामाणुगामं दूइञ्जित्तए, तं०- णाणट्टयाए दंसणढाए चरि तट्टयाए आयरिउवज्झाए से वीसुंभेजा आयरिउवज्झाए बहिं वेयावच्चकरणयाए 'ति श्रीस्थानांगे, अत्र चतुर्थे स्थाने आचार्योपाध्यायः शरीरात् पृथग् भवेत् तर्हि गच्छान्तराचार्यनिश्राकरणार्थं वर्षाकालेऽपि विहारानुज्ञा दत्ता, अतो गणनिश्रामन्तरेण धर्म एव न स्यात् इत्युक्ते स उक्तवान् यथा अन्ये गच्छास्तथाऽस्मद्व्यपस्थापितोऽपि समुदायो गच्छ एव, तन्निश्रयैव वयं धर्मं कुर्म इति को दोषः १, तदनु पूज्यैरुक्तं - अच्छिन्न परंपरागतस्यैव गच्छस्य निश्रा संभवति, न पुनः स्वरुचिविकल्पितसमुदायस्यापि, एवमुक्ते स पाशः पूत्कृत्योक्तवान्- यथाऽतीतकालापेक्षयाऽधुनातनवर्त्तिनो गच्छाः पुरातना भण्यन्ते तथाऽनागतकालापेक्षया मदीयोऽपि समुदायः पुरातनो गच्छ एवेत्याद्युल्लंठवा देनाभिप्रायोऽस्यावगतो यथाऽयमभव्यसदृशः सर्वथा श्रद्धानशून्य इति, अत एव जिनवचनविगोपने नटचरितः, यथा नटोऽन्यदीयवेषादिचेष्टा करणेनान्येषां विगोपको भवति तथाऽयमपि जिनवचनविगोपको, भांडचेष्टाकारीत्यर्थः, यत एवमत एव नियुक्तिभाष्य चूर्णिच्छेदोच्छेदच्छेकमतिः निर्युक्तिभाप्यचूर्णयः प्रतीताः, छेयत्तिपदैकदेशे पदसमुदायोपचारात् छेदग्रन्थाः - निशीथमहानिशीथव्यवहारादयः तेषामुच्छेदः - तदनङ्गीकरणकारणादिलक्षणः तत्र छेका - निपुणा मतिर्यस्य स तथा, अयं भावः - निशीथादिच्छेदग्रन्थाङ्गीकारे सर्वेषामपि कुपाक्षिकाणामुच्छेदः स्याद्, अतस्तैस्ते ग्रन्था एवोपेक्षिताः, पाशचन्द्रेण For Personal and Private Use Only DIGHOIGIONNOISONINGINGH पाशचन्द्रस्वरूपं ॥२६२॥ www.jinelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy