________________
भीप्रवचन
परीक्षा १०विश्रामे ॥२५७॥
ASHOGIOUGHOUGHODHONGKOजल
ज्ञातवान्-अहो लुम्पकमपास्य प्रतिमाऽभ्युपगता, कष्टं तपः करोति, अत एतदीयं वचः सत्यमिति तदुक्तमुन्मार्गमाश्रितः, सच प्रवचनप्रतिकूलो नियमादनन्तसंसारकारणमिति लोकानामशुभकर्मोदय इति गाथार्थः ॥३॥ अथ लोकः किं कृतवानित्याह--
आयावणभूमीए आयावणपरायणं जणो दर्छ । तस्स समीवे भण्णइ मग्गिज्जा जं वयं देमो ॥४॥
आतापनाभूमौ आतापनापरायणम् अर्थात् तं बीजं दृष्ट्वा जनो नाम्ना जैनोऽपि प्रवचनपरमार्थानभिज्ञस्तत्समीपे भणति-भो | बीजर्षे ! त्वं मार्गय यद्वयं दद्य इति जनः कृतवानिति गाथार्थः॥४॥ अथैवमुक्ते बीजः किं कृतवानित्याह
सो उवएसासत्तो भणेइ मुक्खोऽवि पुण्णिमापक्खं । पंचमिपज्जोसवणं कुणंतु अम्हाण निस्साए ॥५॥
स उपदेशाशक्तः-उपदेशदाने सामर्थ्यरहितः आतापनाकष्टेनैव जनं व्यामोहयन् मूर्योऽपि सन् भणति-यदि समीहितं दस्थ तर्हि पूर्णिमापाक्षिकं पंचमीपयुषणां च अस्माकं निश्रया कुर्वन्त्विति बीजाख्यो भणितवानिति गाथार्थः ॥५॥ अथ पुनरपि लोकः किमुक्तवानित्याह___ लोओऽविय परमत्थं अमुणंतो भणइ होउ एवंपि । कालऽणुभावा वुडू अवस्सभवियव्वयाजोगा ॥६॥
लोकोऽपि च परमार्थ-जिनवचनरहस्यमजानानो भणति-एवमपि भवतु, एवं मूर्खादपि प्रवृत्तमेतनाम्ना मतं कालानुभावात अवश्यभवितव्यतायोगात वृद्धम ,अन्यथा मूर्खशेखरनिर्नामकादकिश्चित्करमनुष्यमात्रादपि एतावद्विस्तारयायि कुमतं कथं प्रवतेति गाथार्थः॥६।। अथास्य स्वरूपमाह
वेसो लंपकसरिसो नवरं दंडेण होइ संजुत्तो। उवएसो पुण आगममयसरिसो होइ पाएणं ॥७॥
MOHOUGHOoOROGoकाजात
| ॥२५७॥
For Personal and Private Use Only