________________
श्रीप्रवचन
परीक्षा १० विश्रामे ॥२५६॥
MONGHOTIONSH
OOOOO
अथ दशमो बीजामतनिराकरणो दशमो विश्रामः
अथ क्रमप्राप्तं बीजामतमाह
अह बीजामयकुमयं वुच्छं संखेवओ जहा जायं। विक्कमकाला सत्तरिअहिए पन्नरससयवरिसे ॥१॥ अथेति अष्टमकटुकमतनिरूपणानन्तरं क्रमप्राप्तं बीजामतरूपं यत् कुमतं तत् संक्षेपतः - संक्षेपेण वक्ष्ये, कथं यथाजातं येन प्रकारेण जातं तदनतिक्रमेणेत्यर्थः, विक्रमकालात् सप्तत्यधिकपंचदशशतसंवत्सरे १५७० वर्षे जातमिति गाथार्थः॥ १॥ अथोत्पत्तिखरूपमाहलुंपकमयवेसहरो भूनउ नामेण आसि तस्सीसो । बीजक्खो मुक्खयरो तेणवि अंगीकया पडिमा ||२|| लुम्पकमत वेषधरः भूनउ इति नाम्ना आसीत्, तस्य शिष्यो बीजाख्यो - बीजा इति नाम यस्य स कीदृशो ? - मूर्खतर:- अतिशयेन मूर्खः, शास्त्राध्ययनमधिकृत्य सर्वथा तद्रहित इत्यर्थः, तेनापि - एवंविधेनापि प्रतिमा - नाममात्रेण जिनप्रतिमा अङ्गीकृतेति गाथार्थः ||२|| तदनु किं कृतवानित्याह
सोऽवि गओ मेवाते मेवाडे जत्थ साहुअविहारो। लोयाणमसुहकम्मोदएण कटुं तवं कुणइ ॥ ३ ॥ सोऽपि - बीजाख्योऽपि मेवातदेशे तथा मेदपाटदेशे च यत्र साधूनामविहारो - यत्र साधूनां विहारो नास्ति तत्र गतो लोकाना - मुपलक्षणादात्मनोऽपि अशुभकर्मोदयेन कष्टं-कष्टदायि तपः करोति, ननु लोकानामशुभकर्मोदयः कथमिति चेत् उच्यते, यदि लुम्पकमत एवास्थास्यत् तर्हि जनानामास्था नाभविष्यत्, किंतु लुम्पकमतमपास्य जिनप्रतिमा स्वीकृता तेन लोकः परमार्थानमिज्ञो
Jain Educationa International
For Personal and Private Use Only
UORDING YOGING ON 0% O
॥२५६॥
www.jainelibrary.org.