________________
श्रीप्रवचनपरीक्षा ९. विश्रामे ॥२५३॥
FORT&O%3«O
HONGION
शय्यां कृत्वा तत्र खपिति ८२ जलं पानाद्यर्थं तत्र मुञ्चति पिबति वा८३ तथा मञ्जनस्थानं करोति ८४ ॥ इत्याशातनाकाव्यावचूरिः।। | अत्र पञ्चपञ्चाशत्तमाशातना हारमुद्रिकादिबहिर्मोचनेनाहो मिक्षाचराणामयं धर्म इत्यादिजनापवादलक्षणा भणिता, परिहितशेषवे| पस्योद्घाटितमस्तकस्य तु साक्षाद्विरूपदर्शनस्य सुतरां महाशातनेति बोध्यं, या तु मौलिधरणे षष्टितमा आशातना भणिता सा तु शिरोवेष्टन विशेषजन्या, ननु शिरोवेष्टनविशेषस्तु गृहस्थस्य स्वाभाविक वेषान्तःपातिनी या पादघटिका तस्या उपरि यद्वस्त्रवेष्टनं तद् बोध्यं यथा ब्राह्मणो मनुष्य विशेषः सहकारो वृक्षविशेष इत्यत्र विशेषशब्दस्य व्यवच्छेद्या ब्राह्मणव्यतिरिक्ताः क्षत्रियादयो मनुष्याः राजादनप्रभृतयो वृक्षाश्च तथा शिरोवेष्टनविशेष इत्यत्रापि विशेषशब्देन पादघटिकादि व्यवच्छेद्यं, नतु सामान्येन शिरोवेष्टनमेव ग्राह्यं, विशेषशब्दस्य वैयर्थ्यापत्तेः, एतच्च सम्यक्शब्दपरिज्ञानशून्येन कटुकेन न ज्ञातमिति जिनेन्द्राशातनाबीजमज्ञातमितिगाथार्थः।। ३५ ।। अथ पादघटिकात्यजने कटुकं कटुकयुक्तिमाह
तित्थंकरेण सद्धिं माणो कह जुत्तिजुत्तओ जुत्तिं । । जंपेइ नय मुणेई मुणीहिवि समं समं दोसं ||३६|| तीर्थंकरेण सार्द्ध मान:- अभिमानः कथं युक्तियुक्तको -युक्तिक्षमो १, न भवतीति, युक्तिकटुकः कथयति, न च मुनिभिः समं- सार्द्धं समं समानं दोषं जानाति, अयं च दोषो मुनिभिः सह समान एव, यतो मुनिभिः सहाप्यभिमानो न युक्तः, अतो मुनिस्थानेऽपि प्रविशन् पादघटिकारहित एव युक्तः स्यात्, तच्च कटुकेन नाभ्युपगतमतो ज्ञानविकलः कटुक इतिगाथार्थः ॥ ३६ ॥ अथ गुर्वाशातनामाह
Jain Education Monal
गुरुआसायणमूलं उप्पत्ती अस्स लुंपगस्सेव । जिणपडिमाणं लोए आबालं जाव जगपडहो ||३७||
For Personal and Private Use Only
GHOIGIONGONGHONGINGHORO OK
पादघटिकाचर्चा
॥२५३॥
www.jainelibrary.org