________________
श्रीप्रवचन
परीक्षा
गुरुधर्मयोराशातना
९विश्रामे ॥२५४॥
DHONGAROOHORONSHOULD
____ अत्र कटुकस्योत्पत्तिरेवकारोऽध्याहार्यस्तदुत्पत्तिरेव साध्वाशातनामूलं, यतः कटुक उत्पन्नमात्र एव न मम गुरवो दृक्पथ-|| मायान्तीति वचोमात्रेण साधूनामाशातनाकारी,दृष्टान्तमाह-'लुम्पकस्सेवेत्यादि, इह यथा लुम्पकस्योत्पत्तिरेव जिनप्रतिमानामाशा
तनामूलं, स चोत्पन्न एव नामाकं प्रतिमासु देवत्वबुद्धिः संपद्यते, अयं भावः-यदि कटुकः साधुमङ्गीकरोति लुम्पकस्तु जिनप्रतिमा al तर्हि तयोर्व्यवच्छेदः स्यात् , तदनङ्गीकारमूलकत्वात्तयोः,एतच्चाबालं-बालकमा-मर्यादीकृत्य जगत्पटहो वतते-आबालगोपांगनानाजामपि कटुको गुरुप्रत्यनीको लुम्पाकस्तु जिनप्रतिमानामिति प्रतीतमितिगाथार्थः ॥३७॥ अथ धर्माशातनामाह
गुरुपरतंतविरहिओ धम्मुवएसं मुणिव्व गिहिलिंगी। कुब्वंतो धम्मस्सवि आसाई तेण तिण्हंपि ॥३८॥ | गुरुपारतन्त्र्यरहितो गृहस्थलिङ्गी मुनिवद्धर्मोपदेशं कुर्वन् धर्मस्याशाती-धर्मस्याशातनाकारी, अयं भाव:-कदाचिच्छ्रावको धर्म कथयति तदा गुरव इत्थमादिशन्तीत्येवं गुरुपरतत्रो धर्म कथयति, न पुनः सभाप्रवन्धेन साधुवद्धर्मदेशनां कुरुते, अयं चैतद्विलक्षणोऽतो धर्मस्याशातका, तेन कारणेन त्रयाणामपि देवगुरुधर्माणामप्याशातनाकारी अनन्तसंसारपरिभ्रमणमूलं कटुकः खस्यान्येषां च तदुपदेशवशगानामितिगाथार्थः॥३८॥ अथ कटुकमतस्योपसंहारमाहगिहिजिणबिंबपइहापुणिमपकखिप्पमुहमिहमखिलं । पुण्णिममयसारित्थं पुण्णिमविस्सामओणेअं॥३९॥
कटुकमते साध्वनङ्गीकारात् गृहिणो जिनबिम्बप्रतिष्ठाऽभिमता, श्रावकेण जिनबिम्बप्रतिष्ठा कर्त्तव्या, न पुनः साधुमिः, तथा पञ्चदश्यां पाक्षिकमित्यादि सर्व पूर्णिमीयकमतसदृशं पौर्णमीयकविश्रामाद बोध्यमिति गाथार्थः ॥३९॥
॥२५
॥
Iain Education Interior
For Personal and Private Use Only
www.
n
yora